SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ HAL सिद्धान्त प्रतिमामा साम्यं भीप्रवचन-10 |संप्रतिराजेन जैनप्रासादाः कारितास्तहि श्रीमहावीरप्रतिबोधितानां श्रावकाणां का कथेति स्वयमेव पर्यालोच्यं, ननु जैनप्रासादा परीक्षा न केवलं श्रावककारिता एव भवन्ति, दिगम्बरादिकारितेषु प्रासादेषु व्यभिचारात्, जैनप्रासादत्वे सत्यपि मिथ्यादृष्टिमिरेव ८ विश्राम कारितत्वादितिचेन्मैवं, यतो दिगम्बरादिकारिताः प्रासादा न जैनप्रासादाः, किंतु जैनप्रासादाभासाः, यथा कुपाक्षिकाधीय॥११२॥ मानमाचाराङ्गमाचाराङ्गाभासो भण्यते, न पुनराचाराङ्गम् , अत एव तदधीत्याप्युन्मार्गगामित्वं लुम्पकस्येव सर्वेषामपि कुपाक्षिकाणां, यद्वा दिगम्बरादयो यथा जैनाभासास्तथा तन्निर्मापिताः प्रासादा अपि जैनप्रासादाभासाः, किंच-लुम्पकमतं प्रति श्रावककारितजैनप्रासादव्यवस्थापनाय दिगम्बरादिकुपाक्षिककारिता जैनप्रासादाभासा अपि साक्षिणस्तल्लिङ्गभूता वा, यथा जैनेषु सत्स्वेव श्रावकाभासा भवन्ति, तथा श्रावककारितेषु जैनप्रासादेषु सत्स्वेव श्रावकाभासकारिता जैनप्रासादाभासा भवन्ति, जैनाभासानां हि जैनक्रियानुकारिचेष्टाश्रितत्वाद् , अन्यथा तदाभासत्वासंभवात् , रजःपर्वण्यपि कथंचित्किचिद्राजचेष्टानुकारेणैव नामतोऽपि राजेत्युच्यते, तथा च यदि जगति राजा नाभविष्यत्तर्हि तदनुकारिचेष्टावान् रजःपर्वण्यपि राजा नाभविष्यद्, एवं जैनप्रासादा अपि यदि श्रावककारिता नाभविष्यस्तर्हि श्रावकाभासकारिता जैनप्रासादाभासा अपि नाभविष्यन् , संप्रति च कुपाक्षिककारिताः प्रासादाभासाः अतस्तत्पूर्वभाविनी जैनप्रासादा अपि सन्त्येव, आभासस्य हि पूर्वभाविवास्तववस्तु प्रतीत्यैव प्रवर्तनात , ननु प्रासादानां साक्षिणः प्रासादा एव कथं संभवन्ति ?, किंतु प्रासादव्यतिरिक्तानि सिद्धान्ताक्षराणि दर्शनीयानीतित्सत्यं, वयमपि पृच्छामःसिद्धान्ते तव विश्वासः कथं १, गणधररचितत्वेनेति चेद्गणधररचितत्वमपि कुतो ज्ञातं ?,"सुत्तं गणहररइअं तहेव पचेअबुद्धरइ च। सुअकेवलिणा रइअं अमिण्णदसपुविणा रइ॥१॥"ति पूर्वाचार्यरचितप्रकरणादेवेति चेदहो प्राज्ञत्वं भवतः, प्रासादस्य साथी ONOROGROUNKORata HOakaOHOकान ॥११२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy