________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥११॥
सिद्धान्तप्रतिमासाम्य
MOHorokooooozKOROLI
न्तप्रतिमे अप्युच्येते, ननु श्रावकधर्मप्राप्तौ प्रथमं जिनप्रतिमानिर्मापणबुद्धिरेव कथमितिचेदुच्यते, श्रावकधमें च जिनभवननिर्मापणस्यैवोत्कृष्टत्वाद्, एतच्च प्रागेव प्रपञ्चिनं, भावनाबुद्ध्या तु चिकीर्षाविषय उत्कृष्टपदार्थ एव भवति, नच 'अत्थं भासइ अरहेत्यागमवचनात्तीर्थकरभाषितार्थात् सूत्ररचनैव युक्ता, न पुनर्जिनभवनादिनिर्मापणमपीति वाच्यं, जिनभवनादीनां निर्मूलकत्वापत्तेः, | मूले च विचार्यमाणे भगवान् श्रीमहावीर एव, ननु केन श्रावकेण जिनभवनादिकं निर्मापितमितिचेदुच्यते, कारणं हि तावदश्यं | कार्यजनकमित्येवं नियमाभावात् कार्य नाक्षिपति, नहि मनुजत्वं मोक्षाङ्गमागमे भणितमप्यवश्यं जनयत्येव, तस्यान्याशेषकारणस| हितस्यैव कार्यजननसामर्थ्यात् , कार्य तु नियमात्कारणमाक्षिपत्येव, कारणमन्तरेण कार्यस्यैवानुदयात् , कारणान्यपि प्रति कार्य कर्तृकरणादीनि विचित्राणि, तत्र प्रकृतं कार्य तावजिनभवनादिकं, तच्च बहुवित्तव्ययसाध्यमतो मिथ्यादृष्टिकारितं न संभवति, संप्रत्यपि तथानुपलम्भाद्, अनन्यगत्या तत्कारयितारं श्रावकमेवाक्षिपति, स च यथा श्रीऋषभतीर्थे भरतचक्रवर्ती तथाऽन्येऽपि यावत श्रीवीरतीर्थे यावन्तः शक्तिभाजः श्रावकाः श्राविकाश्च ते जिनप्रतिमादिकारयितारो बोध्याः, न च नामग्राहं सिद्धान्ते नो भणिता इति वाच्यं, सिद्धान्तव्यवस्थापनावसरे नामग्राहेणापि वक्ष्यमाणत्वात् , किंच-जिनप्रतिमाराधनं श्रावककुले नमस्कारगणनवत् प्रती| तमेवास्ति तेन यथा त्वदभिमते क्वाप्यागभे नमस्कारगणनं नोक्तं, नहि एतावता नमस्कारस्यापि स्मरणाभावः संपद्यते, किंच-साधुश्रावकाचाराणां सिद्धान्तेऽन्वेषणमज्ञानविलसितमेव, सिद्धान्तस्यैव साधुश्रावकाचारैकदेशरूपत्वात् , वृक्षे पुष्पान्वेषणं युक्तं, न पुनः पुष्पेऽपि वृक्षान्वेषणं युक्तिसंगतमित्यादि पर्युषणादशशतके किंचिदुक्तं, वक्ष्यते चाग्रे अत्रैव विश्रामे, तसाजैनप्रासादाः श्रावककारिता एव भवन्ति, तत्र साक्षिणस्तु श्रीसम्पतिराजादिनिर्मापितप्रासादा एव, यदि श्रीसुहस्तिमुरिप्रतिबोधितेन श्रावकेण
AGROGROLOHO HOUGHORGok
॥१