________________
सिद्धान्त
भीप्रवचनपरीक्षा विश्रामे ॥११०॥
मतिमा
साम्यं
PMGHONGKONGROUGHOTOHONOHOuote
तित्थयरभासिअत्था निम्मविआसावरहिं जिणपडिमा। अंगाइअसुत्साणं रयणा तहगणहरेहि कया॥१०२॥
तीर्थकरभाषितार्थात "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं" इतिवचनात तीर्थकरभाषितवचनमाकर्ण्य श्रावकैर्जिनप्रतिमा निर्मापिता, तथा गणधरैश्च-गौतमादिभिरङ्गादिकसूत्राणाम्-अङ्गोपाङ्गच्छेदादिसूत्राणां रचना कृता, अयं भावः-भगवान् श्रीमहावीरः केवलज्ञानसमुत्पत्यनन्तरमपापायां नगर्या समवसृतः, तत्र चातुर्विकायिकदेवकोटीश्वरनरेश्वरादिसंकीर्णायां पर्षदि साधुधर्मः श्रावकधर्मश्चेति द्विविधं धर्ममुपदिशति स्म, तत्र सर्वसावधविरत्यात्मको भावस्तवरूपः साधुधर्मः, तं धर्म प्रतिपद्य गणधरास्तथाविधकर्मक्षयोपशमवशात्तीर्थकरमुखात् त्रिपदीमवाप्य विचित्रगद्यपद्यादिवन्धरचनया द्वादशाङ्गी रचयन्ति,शङ्खशतकादयस्तु साधुधर्माशक्ताः श्रावकधर्मेच्छवो द्रव्यस्तवात्मकं श्रावकधर्ममङ्गीकृत्य तीर्थकरमुखादवगतसम्यक्श्रावककृत्याः यथाशक्ति जिनप्रासादादिकं निर्मापयन्ति स्म, न पुनगौतमादिरचितसिद्धान्तवचनं श्रुत्वेति, तथात्वे च श्रावकश्राविकालक्षणमधं तीर्थं गणधरस्थापितं भवेत् , सूत्रपाठाद्युच्चारस्य गणधरादिसाधूनामेव संभवाद् , इष्टापत्तौ च 'तित्थं चाउब्धण्णो'त्ति वचनात् चतुर्णामपि च साध्वादिवर्णानां समुदितानामेव तीर्थत्वं भणितं, तथाविधतीर्थस्थापकत्वाभावात् श्रीऋषभादीनां तीर्थकरत्वमपि न स्यात् , तस्साच्चतुर्णामपि वर्णानां युगपदेव स्थापना ऋपभादिना तीर्थकरेण क्रियते, सा च स्थापना प्रथमसमवसरण एव संजाता, श्रीधीरस्य तु द्वितीय एव समवसरणे। तित्थं चाउचण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीअंमि॥१॥त्ति (२६५ आव.नि.) एवं साधुश्रावकधर्मयोर्युगपदुत्पत्तौ द्वादशाङ्गीरचनाबुद्धिप्रतिमादिनिर्मापणबुद्ध्योयुगपदेव भावात् , ते च बुद्धी द्वादशाङ्गीरचनाप्रतिमानिर्मापणयोः कारणे संपन्ने, कारणमधिकृत्य सिद्धान्तप्रतिमयोः सहोत्पत्तिरेव, यद्वा कारणे कार्योपचारात् ते बुद्धी एव सिद्धा
GOOHOUGHOGookOROUGHE
॥११०॥