SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१०९॥ SOCKS SHOIDIOHO प्रथमं विकल्पं परित्यज्य द्वितीय विकल्पं श्रयन् भूपालपादतलम विष्टोऽपि यत्र विराधना तत्र धर्मो न भवतीत्यादि मौखर्यवाम् पाणिप्रहारेण प्रहृत्य पराक्रियते, हिंसास्वभावोऽयं पापात्मा परिहर्त्तव्य इत्यादिवचोभिः तमेव हीलयित्वा तस्यैव शरणीकरणात्, 'एमेव' ति प्राकृतत्वादकारलोपे एवमेव सर्वमपि ज्ञानादीनां मूलोपकरणातिरिक्तान्यप्युपकरणानीति बोध्यमितिगाथार्थः ॥ १९ ॥ अथोपदेशमाश्रित्य किमुक्तं किं च वक्ष्यते इत्याह एएणं जिणपडिमा सिद्धंते नत्थि तंपि दुव्वयणं । पडिखित्तं विष्णेअं जुगवं दुण्हंपि उप्पत्ती ॥ १०० ॥ एतेन 'से बेमी'त्यादिलुम्पकोद्भाविताचाराङ्गाभिप्रायोद्भावनेन सिद्धान्ते प्रतिमा नास्तीति दुर्वचनं पापवचनं प्रतिक्षिप्तं निरस्तं विज्ञेयं, द्वयोरपि प्रतिमा सिद्धान्तयोर्युगपदुत्पत्तिस्तीर्थप्रवर्त्तनकाले एव द्वयोरपि कारणोदयात्, तच्चाग्रे व्यक्तीकरिष्यते इतिगाथार्थः | ॥१००॥ अथ जिनप्रतिमानां सिद्धान्तस्य च युगपदुत्पत्तिखरूपमाह - जिप डिमासमओऽवि अ तित्थे जायंमि दोवि जायाइं । तित्थेणंगिकयाई तेणेव हु पूअणिजाई ॥ १०१ ॥ जिनप्रतिमा - तीर्थकृत्प्रतिकृतिः समयः - सिद्धान्तः अपि पुनरर्थे चः समुच्चये तीर्थे - साध्वादिसमुदायलक्षणे जाते - तीर्थकृता स्थापिते सति द्वावपि जातौ प्रतिमा सिद्धान्तौ वक्ष्यमाणप्रकारेण तीर्थोत्पत्स्यनन्तरं समुत्पन्नावपि तीर्थेनाङ्गीकृतौ-पूज्यत्वेन स्वीकृतौ तेनैवेह पूज्यौ -आराध्यौ, अयं भावः - प्रतिमासिद्धान्तावुभावपि तीर्थप्रवृत्यनन्तरमव्यवहितौ समुत्पन्नावपि यदि तीर्थेन पूज्यत - याऽङ्गीकृतौ नाभविष्यतां तर्हि कस्यापि पूजनीयावपि नाभविष्यतां निह्नवादिवत्, तीर्थेन तौ पूज्यतयाऽभ्युपगतौ तस्मादद्यापि धर्मिणां पूज्यावेवेति बोध्यं, नपुंसकता च प्राकृतत्वात्, 'लिङ्गमतत्र' मितिवचनादितिगाथार्थः॥ १०१ ॥ अथ कथं युगपदुत्पन्नावित्याह HOGIC HONGKONGHOSHISINGKHONGH सिद्धान्त प्रतिमासाम्यं ॥१०९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy