SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१०८॥ नादिनाऽन्येषां ज्ञानजननं, तत्र नियुक्तं-व्यापृतमुपकरणमुच्यते, ततो विपरीता क्रिया-क्रयविक्रयादिना आजीविकादिकरणं तथा-10 जिनप्रतिविधकपायोदयात् लेष्टुवत् कश्चिजीवं प्रति प्रक्षेपादिना जीवघातकरणमजीवबुद्ध्या फलकादाविवावष्टंभनक्रिया वा पुस्तकसंयुक्तेऽपि मासिद्धिः शरीरे मलमूत्रादिकरणमित्यादिः क्रिया विषयो यस्य तत्तथा, प्रतिमायाः कार्य तीर्थकरस्मरणं तीर्थकरस्यैवाराध्यत्वेन बुद्धिकरणं तीर्थकरस्येव पूजादिविधौ प्रवर्त्तनं तीर्थकरपूजाया इव तस्या अपि पूजायाः सुलभवोधिप्राप्तिः स्वर्गादिप्राप्तिश्चेत्यादिकं, तत्र नियुक्ता प्रतिमा दर्शनोपकरणं, ततो विपरीतक्रिया इयमचेतना पापाणमयी ज्ञानादिशून्या पृथिव्याद्यारम्भस्थानमित्यादिबुद्ध्या तद्विपयकहीला तत्याजनादिरूपा सैव क्रियाविषयो यस्य तत्तथेति, उभयथापि विपरीतक्रिया लुम्पकमतीयानामेवेति ज्ञानदर्शनोपकरणे केवलमधिकरणे एव बोध्ये, अत एव लुम्पकमतोत्पत्तिसमये निजनृजलेनापि मषीमाीकृत्यापि लिखितवन्त इति किंवदन्ती सम्यग् संभाव्यते, अन्यथा पुस्तकवत्प्रतिमाऽपि मान्या स्यात् , तद्युक्तिस्त्वेवं-भो लुम्पक! मूत्रेणार्टीकृतया मध्या वृक्षाद्याकृतयो लिख्यन्ते उताकारादिश्रुतवर्णाकृतयो लिख्यन्ते सत्र कश्चिद्विशेषो न वा?,अन्ते गोपालादीनामपि चपेटायोग्यभवनभीत्या प्रथममेव विकल्पं ब्रूते,पुनरपि | स प्रष्टव्यः-स विशेषः ज्ञान विराधनालक्षणोऽन्यो वा?,अनन्यगत्या प्रथममेव ब्रूते, तदा यथा ज्ञानोपकरणविराधनया ज्ञान विराधना तथा दर्शनोपकरणं जिनप्रतिमा तद्विराधनया दर्शनविराधना, दर्शने च विराधिते मिथ्यात्वापच्या सर्वमपि विराधितमतो जिनप्रतिमाऽवश्यमाराध्यत्वेनैव सिद्धा, यद्वा एवं प्रष्टव्यः-भो लुम्पक! कश्चिच्चदुपदेशनिपुणो नृजलार्दीकृतया मध्याऽशुचिलिप्तवस्त्रावृतो-16) ऽकारादिवर्णात्मकमाचाराङ्गादिसिद्धान्तं लिखति कश्चिचापावित्र्यभीत्या सचित्तजलेन वस्त्रादिशरीरपर्यन्तं प्रक्षाल्य मषीं चाीकृत्य ||१० लिखति, द्वयोर्मध्ये भवतां धर्मित्वेन कोऽभिमत इत्याधुदीरितः सर्वलोकप्रेरितपाषाणखण्डशतपातप्रहतिहेतुकनिजमस्तकस्फोटनभीत्या
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy