________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१०७॥
मासिद्धि
DIGOOOOOOOOOO
ननूपकरणाभावे चारित्राराधनं न संभवतीति चेत् 'ता' तर्हि ज्ञानदर्शनयोरुपकरणैः किमपराद्धम् ?,अयं भावः-लुम्पक चारित्रोपकरणैस्तव किं रहस्युपकृतं यत्तैर्विना चारित्रासंभवः प्रतिपाद्यते, ज्ञानदर्शनयोरुपकरणैश्च किमपराद्धं यत्तविनाऽपि ज्ञानदर्शनयोः सद्भावः प्रतिपद्यते ?, किंच-चारित्रोपकरणनिमित्तमपि गङ्गादिनद्युत्तारे सत्यामपि षड्जीवविराधनायां दोषाभाव इति वदतोलुम्प
कस्य 'माता मे वन्ध्ये ति न्यायः संपद्यते, तन्मते जीवविराधनायां दोषाभावस्थानङ्गीकारादिति गाथार्थः ॥१७॥ अथ ज्ञानादीनां alमूलोपकरणान्याह
णाणुवगरणं पुत्थं जिणपडिमा दंसणोषगरणमिहं । रयहरणपुत्ति चरणे मूलुवगरणाइमेआई ॥९॥
ज्ञानोपकरणं पुस्तकं, दर्शनोपकरणं जिनप्रतिमा-जिनविम्बं, रजोहरणमुखवस्त्रिका चरणे-चारित्रे,षष्ठ्यर्थे सप्तमीति चारित्रस्यो|पकरणे, एतानि मूलोपकरणानि, शेषोपकरणानामेतन्मूलकत्वात् , तथाहि पुस्तकमुद्दिश्यैव मषीलेखिनीपृष्ठकादीनि ज्ञानोपकरणानि, प्रतिमामुद्दिश्यैव प्रासादकलशपुष्पादीनि,रजोहरणमुखवस्त्रिकालिङ्गपूर्वकत्वात्कल्पाद्युपकरणानामितिगाथार्थः॥१८॥अथोपकरणमप्यधिकरणं भवतीत्याह
निअनिअकज निजुत्तं उवगरणं तंपि होइ अहिगरणं । विवरीअकिरिअविसयं विसं व सव्वंपि एमेव ॥१९॥
निजनिजकार्यनियुक्तवदुपकरणम् , उपक्रियते ज्ञानादिना आत्माऽनेनेत्युपकरणं, तदपि विपरीतक्रिया-जगत्स्थित्या निजनिजक्रियातोऽपरा क्रिया सैव विषयो यस्य तत्तथाभृतमधिकरणम् , अधिक्रियते नरकादिष्वात्माऽनेनेति अधिकरणं, विषमिव, विषं हि यथा भक्षितमात्मानं मारयति तथोपकरणमप्यधिकरणीभूतं नरकादिषु योजयतीत्यक्षरार्थः, भावार्थस्त्वयं-पुस्तकस्य निजं कार्य वाच
GHONGKONGHOUGRORONO
G
॥१०७॥
ORS