SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१०६॥ この状 %S विलम्बेनैव स्वगृहमागतः पित्रादिमिलनेन संतुष्टो मनोज्ञभोजनादिविधिनाऽपनीतक्षुत्तृद् सुखीजातः, द्वितीयस्तु तद्वदुत्सुकोऽपि दुर्बलतनुः श्रान्तस्तद्वद्गन्तुमशक्तोऽपि तेन सह पृष्ठौ धावमानस्त्रुटितखायुरन्तराल एव पतितः क्षुत्तृड्बाधितो विपद्य परलोकं गतः, तृतीयस्तु पथि श्रान्तेनापटुना वा त्वया सुस्थाने विश्रम्य विश्रम्य सुसार्थेन गन्तव्यं समागन्तव्यं चेत्यादि पितुः शिक्षां संस्मृत्य तथैव समाचरन् कियता कालविलम्बेन प्रथमवत्सुखी संपन्नः, उपनययोजना त्वेवं- प्रथमपुत्रकल्पो हि जिनकल्पिकः भूयः सामर्थ्य भाजः, | तस्य गणान्निर्गतत्वेनापवादपदसेवनावकाशासंभवात्प्रायश्चित्तादिराहित्येनैवावश्यं संयमाराधकत्वात्, यद्यपि जिनकल्पिकस्य किंचिदनुचिताध्यवसायमधिकृत्य ( अस्ति प्रायश्चित्तं) तदप्यल्पमवक्षितमिति बोध्यं द्वितीयपुत्रकल्पस्तु कालविलम्बकल्पेन प्रायश्चित्तेन भीतः समापतितमप्यपवादमसेवमानः प्रायश्चित्ताद्यनास्पदमुत्सर्ग एव श्रेयानिति निजमतिकल्पना जालपतितो बोध्यः, तृतीयपुत्रकल्पस्तु जिनाज्ञां संस्मरन् उत्सर्गस्थाने उत्सर्गमपवादस्थाने चापवादमप्रायश्चित्तं संसेवमानो बोध्य इत्येवं दृष्टान्तादिना उत्सर्गापवादौ सम्यग् विभाव्य परिसेव्यावितिगाथार्थः || १२ || अथ नद्युत्तारमधिकृत्य लुम्पकविकल्पं प्रतिबन्धैव दूषयितुमाहउवरणाइनिमित्तं नइ उत्तारेवि दोसरहियत्तं । जिणवगणाओऽभिमयं ता किं न जिदिपडिमाए १ ॥ ९६ ॥ नाsपि 'पंचहि ठाणेहिं कप्पंती' त्यादिप्रागुक्तसूत्रेण जिनवचनादुपकरणादिनिमित्तं नद्युत्तारेऽपि दोषररहितत्वमभिमतंलुम्पकस्यापि सम्मतमिति चेतर्हि जिनेन्द्रप्रतिमायामपि किं न दोषरहितत्वमित्यत्रापि संबध्यते, तत्रापि जिनेन्द्रवचनस्य सद्भावाद्, एवं सत्यपि यदि जिनेन्द्रप्रतिमायां दोषस्तर्हि किं न नद्युत्तारेऽपीति प्रतिबन्दीनामापादनं चेतिगाथार्थः ।। १६ ।। अथ पुनरपि परः शङ्कतेन उवगरणाभावे चरित्ताराहणं न संभवइ । ता णाणदंसणाणं उवगरणेहवि किमवरद्धं ? ॥२७॥ HONGIDIGOOGONGKONGHOR जिनप्रतिमासिद्धिः ॥१०६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy