________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥ १०५ ॥
OKOIGORO
जिनेनोक्तं, यदागमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे नाइकमइ, तं० - वेअग वे आवच्चे इरिअहाए अ संजमहाए। तह पाणवत्ति आएछढं पुणधम्मचिंत| ए १ || "त्ति श्रीस्थानाङ्गं ( २००) एवमुपाश्रयाद्वहिर्निर्गमनमध्यापचादिकं, यदागमः- “एगग्गस्स पसंतस्स न हूंति इरिआदओ गुणा हुंति । गंतव्वमवस्सं कारणंमि आवसिआ हो || १ || "त्ति श्री आव० नि० (६९३) एवं वैयावृत्त्यादिध्वपि स्वयमेव योज्यं, तीर्थप्रवाहग्रहणे जिनकल्पिकव्यवच्छेदः सूचितः, जिनकल्पिकस्य द्वितीयपदाभावात्, यद्यपि स्थविरकल्पि - कानां यदपवादपदं तत्किंचिजिनकल्पिकानामपि तथापि जिनकल्पमङ्गीकृत्योत्सर्गपदमेव बोध्यं तस्य द्वितीयपदाभावात्, तथैव | जिनाज्ञायाः, किंच- उत्सर्गापवादावपि पुरुषकालाद्यपेक्षया सापेक्षावपीति न किंचिद्विकल्पस्थानमिति, ननु जिनोक्तविधिनोत्सर्गसेवनायामप्रायश्चित्तमपवादसेवनायां च प्रायश्चित्तमिति वैषम्यं न युज्यते, उभयत्राप्याज्ञायास्तौ ल्यादिति चेन्मैवं, समानन्यायोत्पन्न| योरपि यौगलिक स्त्रीपुरुषयोरिवोत्सर्गापवादयोरपि स्वभाववैपम्यस्य न्यायोपपन्नत्वाद्, अयं भावः - समानमातृ पित्रादिकारणयोरपि यौगलिक स्त्रीपुरुषयोराकृति विकृतिगतिभणितिप्रमुख चेष्टाभिः स्वभाव वैषम्यमनादिजगत्प्रवाहसिद्धं, जगत्प्रवृत्तिहेतुरपि, तथा जिना - | ज्ञागोचरयोरप्युत्सर्गापवादयोस्तथैवोक्तवैषम्यमनादिसिद्धं प्रवचनप्रवृत्तिहेतुरपि, तथा च नैकस्याः स्त्रिया नैकस्माद्वा पुरुषात् जगत्प्रवाहप्रवृत्तिः, किंतुभानां समुदिताभ्यामेव, एवं नैकस्मादुत्सर्गादपवादाद्वा धर्ममूलस्य तीर्थस्य प्रवृत्तिः, किंतूत्सर्गापवादाभ्यां समुदिताभ्यामेवेति बोध्यं किंच वस्तुगतिरियम् - अपवादस्तावच्छ्रान्तानां पथिकानां विश्रामस्थानकल्पः, तत्रोपनयस्त्वेवं कस्यचिदि| भ्यस्यः त्रयः पुत्राः पितुराज्ञामवाप्य व्यापारेण धनोपार्जनेच्छया देशान्तरं गताः, तत्र तथैवोपार्जित विपुलधनाः परेभ्यः संभावितोपद्रवाः स्वयमेव सारस्वापतेयग्रन्थिशिरस्काः स्वगृहामिमुखमागच्छन्ति, तेषां मध्यादेकः पटुरश्रान्तं पित्रादिमिलनोत्सुकोऽब्रत एवा
10.OONSTIONS DIG DIG
जिनप्रतिमासिद्धिः
॥१०५॥