________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१०४॥
| पूजानबु
चारयोराallज्ञासाम्यं
SHOROGROGROGROLOROWORONOR
तेन कारणेन जिनवचनमनेकान्तम्-एकस्मिन्नेव विवक्षिते वस्तुनि पितृत्वपुत्रत्ववदपेक्षया धर्मत्वाधर्मत्वयोर्विरुद्धयोरपि धर्मयोरङ्गीकाराद् , एकान्तवादे च मिथ्यात्वप्रसक्तेः, अत एव लुम्पकमधिकृत्य जिनप्रतिमाऽप्यधिकरणमेवेत्यग्रे वक्ष्यते इतिगाथार्थः।।१२॥ अथ प्रसङ्गतो मुग्धजनभ्रान्ति निराकुर्वन्नाह
एवं पायच्छित्तं भणि कन्जंमि जंमि तं चेव । नो कप्पइ तं वयणं भासंतोऽणंतसंसारी॥९४॥
एवं-प्रागुक्तयुक्त्यनुसारेणानेकान्तात्मके प्रवचने यत्र कार्ये कर्तव्ये प्रायश्चित्तम्-आलोचना तपो भणितम्-अभिहितं अर्थाच्छेदग्रन्थे, तत् चेवशब्दो व्यवहितः संबध्यते, तत्कार्य न कल्पत एवेति यत्तद्वचनं भाषमाणोऽनन्तसंसारी स्वादितिगाथार्थः ॥१४॥ अथानन्तसंसारित्वे हेतुमाह
जम्हा पायच्छित्तं अववायपयंमि होइ पाएणं । अववाएण पवित्ती पायं तित्थप्पवाहंमि ॥९५॥
यस्मात्कारणादपवादपदे प्रायो-बाहुल्येन प्रायश्चित्तं भवति,यथा गई भिल्लोच्छेदकस्य श्रीकालकसूरेः,तत्रापवादस्त्वेवं-तथाविधप्रत्यनीकः सति सामर्थ्य निवार्य एव, यदागमः-"साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपषयणस्स अहि सव्वत्थामेण वारे ।।॥"त्ति श्रीउपदेशमालायां, अत्र जिनाज्ञा त्ववश्य पालनीया, अन्यथाऽनन्तसंसारित्वं सादिति विचिन्त्य तदुच्छेदो विहितः, स चापवादपदगत एव, कारणे समुत्पन्न एव तथासंभवात् , 'कारणिको छपवाद' इतिवचनात ,पश्चाच तेन प्रायश्चित्तविधिरपि प्रतिपन्नः, न चैवं कालकसूरेरिख कस्यचिदेवापवादपदं भविष्यतीत्याह-'अववाएणे'त्यादि, प्रायस्तीर्थप्रवाहे-अच्छिन्नतीर्थपरिपाट्यामपवादेन प्रवृत्तिः, एवकारोऽध्यादार्यः, अपवादेनैव-द्वितीयपदेनैव, यत आस्तामन्यद् , आहारग्रहणमपि कारणिकमेव
.OOOOOOOHOROUGHOना
॥२०॥