________________
पूजानधुचारयोराज्ञासाम्यं
श्रीप्रवचन- धर्मरूपत्वात् ,अयं भावः-जिनकल्पमङ्गीकृत्य वैयावृत्त्यमपि प्रतिषिद्धं, न तावता उग्रक्रियारतेन जिनकल्पिकेन परिहतत्वाद् वैयावृत्त्यं
परीक्षा |खरूपेणाधर्मः, आचार्यादिवैयावृत्त्यस्य स्थानाङ्गादिषु महानिर्जराहेतुत्वेन प्रतिपादनात् , तसाजिनकल्पमधिकृत्य तथैव जिनाज्ञेति ८ विश्रामे |
बोध्यं, तथा जिनकल्पोऽपि दशादिपूर्वधरैर्विशिष्टज्ञानिमिः परिहतत्वेनाधर्म इत्यप्यनुचितम् , अवश्यमाराधकत्वेन महानुभावानामेव ॥१०३॥
| जिनकल्पपालनशक्तरुदयाद्, एवं निषेधवचनेनाधर्मत्वबुद्धिर्नानेतव्या,वस्तुतस्तु यं पुरुषं यत्कार्यमवधिकृत्य यत्प्रतिषिद्धं तत्तदपेक्षail याऽधर्म एव, अन्यथा जिनस्तत्प्रतिषेधासंभवात् , प्रतिषिद्धकरणे च निजनिजकल्पभङ्गात् , तद्भङ्गे च जिनाज्ञाभङ्गाद् , जिनाज्ञाखण्डनं |च महापापमिति पर्यालोच्य यथा जिनकल्पापेक्षया वैयावृत्त्यादिरधर्मस्तथा निष्कारणं द्विशस्त्रिशो वा तथाविधनद्युत्तारोऽप्यधर्मः, | यथा जिनकल्पिकातिरिक्तानां स्थविरकल्पिकादीनां वैयावृत्त्यादिधर्मः तथा यथोक्तकारणै धुत्तारोऽपि धर्मः, तथैव जिनाज्ञायाः सद्भावात् , जिनाज्ञैव धर्मोऽधर्मश्च जिनाज्ञाखण्डनं, यदुक्तं-"आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय चे"ति परमार्थः इतिगाथार्थः ॥१२॥ अथ यत्कल्प्यत्वेनोक्तं तद्धर्म एवेत्यत्रापि नियमाभावं दर्शयति
सव्वे गोअरकाला विगिट्ठभोइस्स हुँति विहिवयणे। जिणकप्पंमि अहम्मो तेणमणेगंत जिणवयणं ॥१३॥
विकृष्टभोजिनः साधोः सर्वेऽपि गोचरकालाः कल्पन्त, यदागमः-"विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाल"त्ति श्रीपर्युषणाकल्पे, इति विधिवचने भवन्ति,ते च गोचरकालाः जिनकल्पे न धर्मः, तस्य तृतीयप्रहर एव गोचरकालाद्, जयदुक्तं-"विहाराहारनीहारास्तृतीयप्रहरे दिवे"ति, अत्रापि वस्तुगतिः प्राग्वद्धोध्या, यथा उक्तमकारेण विकृष्टभोजिनं साधुमङ्गीकृत्य
सर्वेऽपि गोचरकालाः धर्मत्वेनैवाभ्युपगन्तव्याः, जिनकल्पमाश्रित्य पुनरधर्म एव, जिनकल्पस्यैव भङ्गाहेतुत्वात्तथैव जिनाज्ञात्वाच्च,
PROHOUGHOSHOROROROROSHORORE
गाOOGOUGHOOMOROSHO
॥१०॥