SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ परीक्षा श्रीप्रवचन-0 सूत्रे उ० ४,अत्र विधिनिषेधयोरुभयत्राप्याज्ञा तुल्या,यद्यप्युत्सर्गादपवादो चलीयानिति न्यायादुत्सर्गापेक्षयाऽपवादो बलीयानुक्तस्त- पूजानयुथापि स्वस्वस्थानयोर्जिनाज्ञामधिकृत्य तुल्यतैव, यदि पुनरुत्सर्गस्थानेऽपवादमपवादस्थाने चोत्सर्ग सेवते तदा नियमादनाचारवानेव, सत्तारयोरा८ विश्रामे ज्ञासाम्यं यत उत्सर्गापत्रादौ हि वामदक्षिणनेत्रयोरिव प्रवचनप्रवृत्तिहेतू, नेत्रे च द्वे अपि स्वस्व स्थानस्थे एव श्रेयोभाजी, न पुनः ॥१०२॥ परस्थानस्थे अपीति, अन्यथा यद्युत्सर्गापवादयोराज्ञामधिकृत्य तौल्यं नाभिधीयते तर्हि स्तवयुग्मं द्रव्यस्तवभावस्तवरूपं न भवेद् , उत्सर्गापवादरूपयोः साधुश्रावकधर्मयोरेकतरस्थानाज्ञात्वापत्तेरितिगाथार्थः ॥१०॥ अथ प्रागुक्तयुक्त्या किं संपन्नमित्याह एएणं पडिसेहो अहम्मभावेण धम्मभावेण । विहिवयणंति विगप्पा वयणं अण्णाणविण्णाणं ॥२१॥ एतेन-प्रागुक्तप्रकारेण प्रतिषेधः-अमुकं न कर्त्तव्यमुत नाधिकं कल्पते इत्येवंरूपेण यो निषेधः सोऽधर्मभावेन-अधर्मत्वेन विधिवचनम्-इदमित्थं कर्तव्यमित्येवंरूपेण यद्भाववचनं तद्धर्मभावेन-धर्मत्वेनेति विकल्पात-स्वयं विकल्पितबुद्धेर्यद्वचनं-भाषणं तद् 'अज्ञानविज्ञानम्' अज्ञानस्य-मत्याद्यज्ञानस्य विज्ञानं, यद्वा अज्ञानेन विज्ञा अज्ञानविज्ञास्तेषां कुपाक्षिकेष्टश्रुताज्ञानाभ्यासेन पण्डित| ख्यातिभाजस्तेषामित्यर्थः, अयं भावः-कुपाक्षिको जानाति यदागमे निषिद्धं तदधर्म एव, यच्च कर्त्तव्यतयोपदिष्टं तद्धर्म एवेति तदज्ञानमाहात्म्यमेव, प्रवचने तथानियमाभावादिति गाथार्थः ॥११॥ अथ यन्निपिद्धं तदधर्म एवेति नियमाभावं दर्शयितुं गाथामाह-| जिणकप्पे पडिसिद्धं वेआवडिअंपि संघपमुहाणं । दसपुब्बिअपमुहाणं जिणकप्पो चेव पडिसिद्धो ॥१२॥ ॥२०२॥ जिनकल्पे सङ्घप्रमुखाणां तुलामध्यन्यायेन 'मध्यग्रहणे आद्यन्तयोरपि ग्रहण'मित्याचार्यादिचैत्यपर्यन्तानां वैयावृत्यमपि प्रतिषिद्धं, दशपूबिकममुखाणां-दशादिपूर्वविदां विविष्टधर्मोपदेशादिशक्तिमत्वेन जिनकल्प एवं प्रतिषिद्धः, एवं निषेधे सत्यपि द्वयोरपि । PGROOOOOOOOOroo POHOTOGGOOOOOO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy