________________
नद्युत्तार
श्रीप्रवचन
परीक्षा ८ विश्राम ॥१०॥
पूजयोः साम्य
GOOHOOHOTOHOROSHO
ला अर्यापथविकल्पं निरस्य संख्यानियमोऽपि निरस्यन्नाह। एवं नइउत्तारे संखानिअमोऽवि साहुकप्पठिई । अण्णह कप्पविगप्पे छजिअवहो केण अवहरिओ ? ॥८॥
'एवं' प्रागुक्तयुक्त्या यथेर्या जिनाज्ञा तथा संख्यानियमोऽपि साधुकल्पस्थिति:-जिनाझैव, न पुनः पातकत्वेनेत्यादि, अन्यथायद्येवं न स्यात्तर्हि कल्पविकल्पे-द्विवारादिनिषेधेादेकवारं कल्प्यो यो विकल्पस्तत्रापि षड्जीवनिकायवधः सर्वसम्मतोऽपि केनापवाहतो?,न केनापि,न चेर्यापथिकी प्रतिक्रान्त्या तत्पातकविशोधिरितिशङ्कनीय,तथाभृतस्यापि पातकस्र्याप्रतिक्रान्त्या व्यपगमे द्वितीयादिवारेऽपि तया तदपगमः सुलभ एव, शेषप्रायश्चित्तविधीनां च दत्ताञ्जलितापचेरितिगाथार्थः॥८८॥ अथ संख्यानियमेऽतिप्रसङ्गमाह
अहवा देसिअराइअपकखिअचउमासवासपडिकमणं । संखानिअयं पावं पावमए पुण्णमवि पुण्णं ।।८९॥
संख्यानियमेन यदि पातकत्वं तर्हि दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणानामपि पातकत्वं स्यात् , तेषा मपि संख्यानियतत्वात् , तत्रापि सांवत्सरिकप्रतिक्रमणस्य विशेषतः पातकत्वं प्रसज्येत, यतो मासमध्ये गङ्गादिनद्युत्तार उत्सग्गत एकवारं भणितः सांवत्सरिकप्रतिक्रमणं च संवत्सरमध्ये एकवारमिति 'पापमते' लुम्पकमते पुण्यमपि-सर्वप्रतिक्रमणेवृत्तममपि सांवत्सरिकप्रतिक्रमणं पूर्ण पापं भवेदितिगाथार्थः॥८९।। अथ नद्युत्तारस्याप्युत्सर्गेण निषेधे सत्यपवादेन कल्प्यता भणने लुम्पकमतामिभिप्रायेण संख्यानियमोऽकिंचित्कर इति दर्शयन्नाह
उस्सग्गेण निसेहो अववाएणेव कप्पणिजं च । दोसुवि आणा तुल्ला वयजुग्गं अण्णहा न हवे ॥९॥ उत्सर्गेण निषेधः "णो कप्पति निग्गंथाण वा २ इमाओ उद्दिष्टाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानईओ अंतो
DoooooootakoGOOG
॥१०॥