________________
श्रीप्रवचन
परीक्षा ८ विश्राामे ॥९९॥
नधुत्तारपूजयोः साम्यं
OLOROGROUGHOUGHOROHOTO
हारालोपिकेत्यर्थः, तथाहि-राद्धान्नादिकं हि किश्चिद्भोज्यं भुक्तं सदन्ते जलेनावश्यं शुचिकर्म कर्त्तव्यमेव, अन्यथा लोकव्यवहारबाह्यो भवेत् , किंचिच्च तथाविधखर्जूरद्राक्षादिकं ताम्बूलादिकं चान्ते जलशुचिमन्तरेणापि लोकव्यवहारवानेव स्याद् , अत एव मुखे | सत्येव ताम्बूलादिके पुस्तकादिसंस्पर्शने पण्डितलोकेऽप्यनिन्द्यता, राद्धान्नं भक्षयन् पुस्तकादिस्पर्शवान् पापात्मैव भण्यते,एतदृष्टान्तेन दान्तिकमाह-एवं जिणिंदे'त्यादि गाथा, एवं-भोजनदृष्टान्तेन जिनेन्द्रधर्म आज्ञाविषयोऽपि भिन्नविधिविषयः, जिनेन्द्रभापितो | धर्मोऽप्यनेकप्रकारः, कार्यभेदे हि कारणेऽपि भेदोऽवश्यं वक्तव्यः, अतो भिन्नभिन्नक्रियासाध्य इत्यर्थः, तेन कारणेन नद्युत्तारेनद्युत्तारानंतरं साधूनामीर्या भणिता, न जिनेन्द्रपूजायां,चाप्योरध्याहारात ,नच जिनेन्द्रपूजायामपि श्रावकाणामीर्या भणिता, युक्तिश्चात्र प्रागेव दर्शितेति बोध्यं, किंच-कारणानां सादृश्ये कार्याणामपि वैचित्र्यं न स्यादितिगाथार्थः ॥८५-८६।। अथाज्ञामन्तरेणापि नद्युत्तारे यत्पातकं तदीर्यापथिकयैव विशोध्यमिति लुम्पकाभिप्राय तिरस्कुर्वनाहजइ आणानिरविक्खा इरिआ नइपाणबाहसोहिगरी। ता मुणिदाणे तीए सड़ो सुद्धो असुद्धोवि । ८७॥
यदि आज्ञानिरपेक्षा-जिनेन्द्राज्ञामन्तरेणापि केवलमीयेव 'नदीप्राणवधशोधिकरी' नद्युत्तारे यः प्राणवधः सर्वजनप्रतीतस्तस्य | शोधिकरा-विशोधिननिका 'ता' तर्हि मुनिदाने-साधुदानावसरे दानोत्सुकोऽनाभोगादिना सचित्तस्पर्शमात्रेणाशुद्धोऽपि श्राद्ध ईयां प्रतिक्रम्य शुद्धः संपन्नः उभयोरपि न दोषावहो भविष्यति, यथा ईर्यापथिक्या प्रत्याख्यातसर्वसावद्यानामपि साधूनां ज्ञात्वाऽपि नदीगतानेकजलादिजन्तूनां घातेनापि यत्पातकं तदप्यपाक्रियते तर्हि तया गृहिणोऽप्यनाभोगेनापि किंचित्सचित्तस्पर्शमात्रजन्यं पातकं सुतरामपाकरिष्यते, नहि मेरुगिरिरजोऽपनोदकेन जलेन कर्करादिगतरजो नापनीयते इति स्वयमेवालोच्यमितिगाथार्थः।।८७॥
GOOGOOGHOook