________________
श्रीप्रवचनपरीक्षा विश्रामे ॥९८॥
साम्यं
GHONORONORONOUGHOUGHOSH
|बोध्यः, किंच-द्विविधत्रिविधप्रत्याख्यानवान् कृतसामायिकः श्रावकोऽप्यनाभोगादिना सचित्तस्पर्शादिजन्यपातकभीतः सन्नीयाँ नयुत्तारप्रतिक्रामति, लुम्पकस्तु यावजीवं त्रिविधत्रिविधेन जीववधादि प्रत्याख्यायापि महापातकमिति ज्ञात्वाऽपि ज्ञात्वैव महीसदृशीं महा
पूजयोः नदीमुत्तरन् षड् जीवनिकायान् हत्वाऽपीर्यामात्रेण तत्पातकशुद्धिं ब्रुवाणो न लज्जते इति महामूखताचिह्नमपीतिगाथार्थः ॥८३॥ अथेर्यापथिकी ह्यात्मनः शुद्धिकरा धर्ममात्रे कथं न भवतीति लौकिकलोकोत्तरदृष्टान्ताभ्यां शङ्कामपाकरोति- . .
लोएवि गिहपवेसे सुइजलफासो न हट्टपविसेऽवि । लोउत्तरि सामइए इरिआ न तहेव मुणिदाणे ॥८॥
लोकेऽपि गृहप्रवेशेन शुचिजलस्पर्श:-अभ्युक्षणं सर्वजनप्रतीतं, न हट्टप्रवेशे, चकारो गम्यः, न च हट्टे-आपणे प्रवेशेऽभ्युक्षणं | कोऽप्युपादत्ते, यद्यप्यापणो महामूल्यपण्यादिभृतो महालाभादिहेतुस्तथापि गृहपतिर्यथा गृहे प्रविशन्नभ्युक्षणं लाति न तथा कोऽप्यापणे प्रविशनपीति लौकिकदृष्टान्तः, तथा लोकोत्तरे सामायिके यथा ईर्या न तथैव मुनिदाने, यथा सामायिकं कुर्वन्नीयाँ प्रतिक्रम्यैव न तथा मुनिदानं कुर्वन्नपीति भाव इति लोकोत्तरदृष्टान्तः, दाान्तिकौ तु जिनपूजानधुत्तारौ प्रकृतावेवेतिगाथार्थः ॥ ८४॥ अथ नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य साम्येऽपि कथंचिद्भेदो न दोषायेति दर्शयितुं दृष्टान्तान्तरयुक्तं गाथायुग्ममाहअहवा जह अंतेविअ भोअणकिरिआवि विविहवत्थुगया। जलसुइरहिआऽरहिआलोअव्ववहारसंवडिआ॥८५॥
एवं जिणिंदधम्मो आणाविसओऽवि भिन्नविहिविसओ। तेणं नइउत्तारे इरिआन जिणिंदपूआए॥८६॥ युग्मं॥ el अथवेति दृष्टान्तान्तरद्योतकः, अथवा यथा विविधवस्तुगता अशनपानखादिमस्खादिमविचित्रवस्तुगता भोजनक्रिया अन्तेऽपि
॥२८॥ आस्तामादौ तद्भुक्त्यनन्तरमपि जलशुचिविरहिता, चः समुच्चये, अरहिता च-जलशुच्यन्विता च लोकव्यवहारसंपतिता, लोकव्यव-al
GOOGOGHORG