SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥ ६५ ॥ त्यानां च कौण्डिन्यादीनां शिष्यत्वं विशीर्यत एव यतस्ते स्वात्मनः श्रीसुधर्मस्वाम्यपत्यत्वं ख्यापयन्तो न तीर्थकृतो नापि गुरवो, गुरुपारतन्त्र्याभावेनैव नवीनमताविष्करणात् कस्यापि शिष्यत्वाभावादिति भावार्थः, यत्तु तेषां परस्परं गुरुशिष्यत्वव्यवहारस्त| न्मरुमरीचिकायां जलव्यवहारवत्तदाभासत्वेनैव बोध्यः, अत एवागमेऽपि - "सत्त पवयणनिण्हगायरिआ पं०, तं० - जमाली " त्यादि (एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मायरिया हुत्था, तं० - जमाली० इति पाठः स्थानाङ्गे ५८७ सूत्रे ४१० पत्रे ) तन्मतादि| मूलकर्तृत्वाद्, वस्तुगत्या देवाभासत्वेऽपि गुर्वाभासत्वेन लोके गुरुशिष्यव्यवहारात्, नन्वेवं बोटिकादिपाशपर्यन्ताः किं स्वतीर्थिका उतान्यतीर्थिका वोच्यन्ते ? अथवाऽन्यथैवेति चेद्, उच्यते, नैते स्वतीर्थिका उत्सूत्रप्ररूपणायास्तीर्थबाह्यत्वात्, यदुक्तं " समुद्धा - तादि जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनवाह्यो भवती" ति श्रीस्थानाङ्गवृत्तौ (५८७ सू. उपक्रमे) सप्तनिवाधिकारे, न वा परतीर्थिकाः, शाक्यादिपरतीर्थिक क्रियानभ्युपगमात् किं त्वमी अव्यक्तशब्देनान्यथैव वाच्याः एतेऽव्यक्ता इति, यदाहुः श्री| हरिभद्रसूरिपादाः - " पवयणनीहूआणं जं तेसिं कारिअं जहिं जत्थ । भजं परिहरणाए मूले तह उत्तरगुणे || १ || ति नियुक्तिगाथा ( ७८७) व्याख्यायां “नैते साधवो नापि गृहस्थाः नापि अन्यतीर्थिकाः यतस्तदर्थाय कृतं कल्प्यमेव भवत्यतोऽव्यक्ता एते" इति गाथार्थः इति श्रीआ० नि० ह० (३२६पत्रे) इति गाथार्थः ||२|| अथ के मीषामादिकर्त्तारः १ कोऽमीषामुत्पत्तिकाल: २ का वाऽमीषां प्ररूपणा ३ को वाऽस्याः प्रतीकारः ४ किंनिमित्तं चामीषां तीर्थबाह्यभवन ५ मित्यादि यथाऽऽम्नायं विभणिषुः 'यथोद्देशं निर्देश' मिति न्यायात् प्रथममुद्दिष्टस्य दिगम्बरस्य वक्तव्यतामाह तत्थ य खमणो रमणो दुग्गइवणिआइ जेण वणिआए। न मुणइ मुक्तिं मुक्तिं केवलिणो कवल भोइस्स ||३|| निह्नवानामव्यक्तता ॥ ६५ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy