________________
andA
illm
दशानां भ्रष्टत्वं
श्रीप्रवचनपरीक्षा २विश्रामे ॥६३॥
HIRAINRITRIPAathaAPRILITBIDIORAIPTIRHIRPERIOR
अथ प्रकृतं विवक्षुराह--
अह पगयं दंसेमो वित्थरओ किंचि जं च सामन्ना । भणिअंतित्थसरूवे दसस्सरूवं पसंगणं ॥१॥
अथ 'प्रकृतं' कुपाक्षिकास्तीर्थाद्भिन्ना इति भव्या जानंत्विति कुपाक्षिकस्वरूपनिरूपणं प्रकृतं-प्रारब्धं तत् किंचिद्विस्तरतो दर्श| यामः, तत्किी -यत् प्रसङ्गेन दशस्वरूपं सामान्यात् तीर्थस्वरूपे-तीर्थस्वरूपनिरूपणविश्रामे भणितं,प्रसङ्गस्त्वेवं-तीर्थस्वरूपनिरूपण| मन्तरेण ततो बाह्याः कुपाक्षिका इति वक्तुमशक्यमिति तत्स्वरूपनिरूपणं प्रासङ्गिकमिति गाथार्थः ॥१॥ अथ 'तित्थं चाउबण्णो' इत्यादिदशमगाथात आरभ्य 'एवं जुत्तिदिसाए' इत्यादिसप्तनवतितमगाथायर्यन्तं तीर्थस्वरूपं निरूपितम् , एवंविधे तीर्थे सिद्धे तत्प्रत्यनीकानां दशानामपि तीर्थान्तर्वतिनां सर्वथा हेयत्वे सिद्धेऽपि व्यक्त्या तत्स्वरूपं विवक्षुः प्रथमं साधारणस्वरूपमाह-- दसवि अ एए पवयणपओसभावा पवयणओ भट्ठा। गुरुपरतंतविरहिआ उम्मग्गपरूवणारसिआ ॥२॥
दशापि चैते-प्रागुद्दिष्टाः 'खवणयेत्यादिना दिगम्बरादिपाशपर्यन्ताः प्रवचनतो भ्रष्टाः-जैनप्रवचनतो भ्रष्टाः, जैनप्रवचनाच्च्युतास्तीर्थाद्दरवर्तिन इत्यर्थः, कुत इति हेतुमाह-'पवयण'त्ति प्रवचनप्रद्वेषभावात्-जिनशासनविषयकद्वेषोदयात् , एतत्प्रवचनमस्मत्पराभवकारि माऽस्मदृक्पथमवतरतु, किंतु निस्सत्ताकीभवत्वित्येवंरूपेणानन्तानुबन्धिद्वेषजन्यरुद्रपरिणामसद्भावादिति तात्पर्य, तत्रापि विशेषणद्वारा हेतुमाह, यतस्ते कीदृशाः ?-'उन्मार्गप्ररूपणारसिका' उन्मार्गः-स्त्रीमुक्तिनिषेध१ चतुर्दशीपाक्षिकनिषेधर पर्वातिरिक्तदिनपौषधनिषेध३ सामायिकादौ श्राद्धमुखवस्त्रिकानिषेध४ जिनबिम्बानां पुरः फलादिपूजानिषेध५ श्रुतदेवतास्तुतिनिषेध६जिनप्रतिमानिषेध७ संप्रति गुरुदृग्पथावतारनिषेध८ परम्परागतप्रायोबहुविधिनिषेध९ जिनपूजादिषु साधूपदेशनिषेध१० प्रमुखल.
m athematiNITARIANILI I RAPHIROINDIAHIRAINRITAMARILAILAINALI