________________
श्रीप्रवचनपरीक्षा १ विश्रामे ॥ ६२ ॥
जीवलोकम्, अन्योऽपि सूर्यो लोकं प्रकाशयन्नेवाशीर्भाग् भवति तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह - 'सासणे' त्यादि, | शासनं जैनतीर्थं तद्रूपो यः उदयगिरिः - उदयाचलो निषध इतियावत् तं प्राप्य तच्छिखरमासाद्य, अन्योऽपि सूर्यो निषधशिख| रमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीर्थं प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरिं १ - ' जिनभाषितधर्मसागरानुगतं ' जिनेन - अर्हता भाषितो यो दानादिलक्षणो धर्मस्तद्रूपो यः सागरः- समुद्रस्तं प्रत्यनुगतः - प्राप्तः संबद्धोऽनुकारी चेत्यर्थः, निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तमनुकारी- समुद्रसदृशः, यथा सूर्यः समुद्रे मण्डलानि कुरुते तथैव निषधेऽपि, यदुक्तं - “तेसट्ठी निसढंमि अ दुन्नि अवाहा दुजोअणंतरिआ । एगुणवीसं च सयं सूरस्स य मंडला लवणे ॥ १ ॥” इति, | अथ निषधापेक्षया समुद्रे सूर्यस्य भूयांसि मण्डलान्यतः समुद्रोपमयोपमितो निषधः । अत्र धर्मसागर इति प्रकरणकर्तुर्नामापि सूचितं | बोध्यमिति गाथार्थः ॥ १०१ ॥
इअ कुवक्त्रकोसिअसहस्सकिरणंमि पवयणपरिक्खावरनामंमि तित्थसरूवनिरूवणनामा पढमो विस्सामो समत्तो ॥
¤XXXXXXXXXXXXXXXXXXXXXXXXX
इति श्रीमत्तपागणन भोन भोमणिश्रीहीर विजय सूरीश्वर शिष्योपाध्यायश्रीधर्मसागरगणि
विरचिते कुपक्ष कौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि
प्रकरणे तीर्थस्वरूपनिरूपणनामा प्रथमो विश्रामो व्याख्यातः
XXXXXXXXXXXXXXXXXXXXXXXXXXXXX
ग्रन्थ
स्पाशीः
॥ ६२ ॥