________________
श्रीप्रवचनपरीक्षा १ विश्रामे
॥ ६१ ॥
ख्याः सपरिकरा ऋ० मेघजीप्रभृतयो नगरमुख्ये अहम्मदाबादे म्लेच्छमुख्य मुद्गलाधिपतिपातिसाही श्री अ कब्बर साक्षिक महामहः पुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदिरे न तथा प्राचीनाचार्यराज्येषु, यद्यपि कश्चित् कदाचित्प्रव्रज्यादिकं स्वीकुर्वाणो दृष्टः श्रुतोऽपि परं तन्मुख्यास्तूक्तयुक्त्या श्रीहीरविय सूरिराज्ये इति चित्रम्, एवमपि कुत इति विशेषणद्वारा हेतुमाह यतः किंलक्षणे श्री पूज्यवारके:'गुरुदैवतपूर्णोदये' गुरु- महत् तच्च तद्दैवं भाग्यं गुरुदैवं, तदेव गुरुदैवकमिति खार्थे कः, तस्य पूर्णः - अन्यून उदयः तीर्थकृन्नाम| कर्मोदयवत् प्राग्जन्मोपार्जितशुभप्रकृतिविपाकानुभवनं यत्र स तथा तस्मिन् गुरुदैवकपूर्णोदये, तत्र न केवलं गुरोरेव पुण्यप्रकृत्युदयः, किंतु तद्भक्तानामपि तथाहि - गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले श्रीस्तम्भतीर्थे प्रभावनामुखेनैव कोटिसंख्याद्रव्यव्ययः संभवति, नवा चरणविन्यासे प्रतिपदं रौप्यकसौवर्णिकमोचनं मौक्तिक| स्वस्तिकादिरचनमित्यादिना तीर्थकृत्प्रतिमः पूजोदयः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां धात्रा ज्ञानदर्शनचारित्राणि पिण्डीकृत्य निर्मितैकमूर्त्तीिनां श्रीगुरूणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथा| विधभवितव्यतयैव तथा भक्युल्लासः संभवति, यदागमः - पुण्णेहिं चोइआ पुरक्खडेहिं सिरिभायणं भविअसत्ता । गुरुमागमेसिभद्दा | देवयमिव पज्जुवासंति ॥ | १ || ति ( उपदे १०१) गाथार्थः ॥ १०० ॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह-इअ सासणउदयगिरिं जिणभासि अधम्मसायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयउ एसो ॥ १०१ ॥ इति- अमुना प्रकारेणैषः-अध्यक्षसिद्धः सहस्रकिरणः 'पदैकदेशे पदसमुदायोपचारात् ' कुपक्षकौशिकसहस्रकिरणो जयतु-जीयादित्याशीरुपदर्शितेतिसंबन्धः, आशीरपि तत्कृत्योद्भावनपुरस्सरमेव भवतीत्याह, किं कुर्वन् जयतु १ - ' प्रभासयन्' प्रकाशं कुर्वन्, अर्थात्
ग्रन्थवर्षमानादि
॥ ६१ ॥