SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकृतौ वर्ष गुरवच श्रीप्रवचनपरीक्षा २विश्रामे ॥६०॥ सूर्यस्य जयो यस्मात् स रविजयः, सूर्यबृहस्पत्योः परस्परं मैत्रीसद्भावात् बृहस्पतेः सकाशाद्रवेर्जयो भवत्येव, ततो विशेषणसमासः, एवंविधो यः सु-शोभनो गुरु:-बृहस्पतिस्तन्नाम्ना वारस्तसिन् श्रीहिद्रविजयसुगुरुवारे, किंलक्षणे ?-'गुरुदैवतपूर्णोदये' गुरुदैवतः-पुष्यं पूर्णा च अर्थाद् दशमी, चैत्रशुक्लपक्षे पञ्चमीदशमीपूर्णातिथ्योः पुष्य नक्षत्रयोगात् , तयोरुदयो यत्र स गुरुदैवतपूर्णोदयस्तसिन् , सं० १६२९ वर्षे चैत्रसितदशमी१० तिथौ बृहस्पतिवारे पुष्यनक्षत्रे चन्द्रे चरति सतीति भावार्थः, गुरुपक्षे पुनर्व्याख्यानं यथा-श्रीहीरविजयसुगुरुवारे-सुविहिताग्रणीश्रीहीरविजयसूरीश्वरराज्ये प्रवर्त्तमाने, किंलक्षणे ?-'नवहत्थे'त्यादि, नव हस्ताः प्रमाणं यस्यैवंविधः कायः-शरीरं यस्य स चासौ राजा च नवहस्तकायराजः-श्रीपार्श्वनाथस्तेनाङ्कितः-अवच्छिन्नोऽर्थात् || यः कालस्तेन समः-सदृशो महिमा यत्र स तथा तसिन् , अत्समासान्तेन नवहस्तकायराजाङ्कितसममहिमे, यद्वा नव हस्ताः | प्रमाणं यस्यैवंविधो राजते इत्येवंशीलो राजी-शोभनशीलः कायः-शरीरं यस्य स प्राकृतत्वाद्विशेषणस्य परनिपातस्तेनाङ्कितःचिह्नीकृतोऽर्थात् श्रीपार्श्वनाथस्तस्य महिम्नः समो महिमा यत्र स तथा तस्मिन् , श्रीपार्श्वनाथराज्यसदृशमहिम्नि श्रीहीरविजय| सूरिराज्ये इत्यर्थः, अयं भावः-श्रीऋषभाद्यपेक्षया हीनकालसमुत्पन्नोऽपि श्रीपार्श्वनाथः सर्वजनेष्वादेयनामा यथाऽभूत् न तथा | ऋषभादयः, एवं वज्रस्वाम्याद्यपेक्षया श्रीवीरजन्मनक्षत्रसंक्रान्तभसराशिमाहात्म्यात् कुनृपकुपाक्षिकबाहुल्येनातथाविधकालोत्पन्नोऽपि श्रीहीरविजयसूरिर्यथा माहात्म्यभाग् न तथा वजस्वाम्यादयः, न चैतद्वर्णनमात्रं, किंतु पारमार्थिकमिति प्रदर्शनाय विशेषणद्वारा हेतुमाह, किंलक्षणे श्रीहीरविजयसुगुरुवारे?-'चित्रसितपक्षे चित्रम्-आश्चर्य यथा स्यात्तथा कुपाक्षिकमुख्यानामपि निजकुपक्षपरित्यागपुरस्सरं सितः-श्वेतः शुद्ध इतियावत् पक्षः-अङ्गीकारो यत्र वारके स तथा तस्मिन् , अयं भावः-कुपाक्षिकमु MARRIANDHARIBAGHPATI Milimmammelanminthemam alTRANSLATIRIRANI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy