SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे ॥ ५९ ॥ किमर्थं :- भद्रार्थ- मङ्गलायेति गाथार्थः ||९७|| अथ तीर्थस्वरूपोपसंहारमाह एवं तत्सवं सम्मं मुणिऊण सुकयअन्भासो | विष्णू कुवखकोसिअसद निरोहं सुहं कुई ||९८ | 'एवं' प्रागुक्तप्रकारेण तीर्थस्वरूपं सम्यग् ज्ञात्वा सुकृताभ्यासो विज्ञः पण्डितः कुपक्षकौशिकशब्दनिरोधं सुखं यथा स्यात्तथा | करोति, कौशिकशब्दो हि जनानामशुभहेतुरतस्तनिरोध एव श्रेयान् तेन कुपक्षकौशिकोऽपि तीर्थस्वरूपे निरूपिते निरुद्धशब्दप्रसरो भवतीति गाथार्थः ॥ ९८ ॥ अथ विश्रामोपसंहारमाह एवं कुपकूखकोसिअसहस्सकिरणंमि उदयमावण्णे । दसवि कुवक्खा विसरा विगयप्पसरा मुणेयवा ॥९९॥ 'एवं' प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते दशापि कुपक्षाः विखरा-उत्सूत्र भाषकत्वेन विरुद्धः - अश्राव्यः स्वरोनिनादो येषां ते विखराः, अर्थात्कौशिका इत्यर्थः, 'विगतप्रसराः' विगतः प्रसरो- गमनागमनादिक्रियारूपो येषां ते तथा ज्ञेयाः- पण्डितैर्बोध्या इति गाथार्थः ॥९९॥ अथेदं तीर्थस्वरूपं कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सति कथितमिति प्रदर्शनाय गाथामाहनवहत्थकायरायंकिअसममहिममि चित्तसिअपक्खे। गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे ॥१००॥ संवत्सरपक्षे त्वेवं-नवहस्तशब्दौ क्रमेण नवकद्विकसंख्याभिधायकौ, कायाः - पृथिव्यादयः समयभाषया षडिति षट्सङ्ख्यावाची | कायशब्दः, राजा - चन्द्रः स चैकत्वसङ्ख्यावाची ज्योतिर्विदां प्रतीतः, एतैः शब्दैः 'अङ्कानां वामतो गति' रितिवचनात् क्रमेण येऽङ्कः १६२९ ते जाता यासु ता नवहस्तकायराजाङ्किता एवंविधाः समाः संवत्सरास्तासां महिमा - नामग्रहणादिना ख्यातिर्यस्मिन्नेवंविधे | चैत्रसितपक्षे - मधुमासस्य शुक्लपक्षे, तत्रापि श्रीहित् रविजयसुगुरुवारे - श्रिया - शोभया हिनोति-वर्द्धते सुरगुरुत्वात् यः स श्रीहित् रवेः प्रथमविश्रामोपसंहारः ॥ ५९ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy