SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीश्वचनपरीक्षा १ विश्रामे ॥ ५८ ॥ | गन्धोदकपुष्पवृष्ट्यादिमिर्देवाः - शक्रादयो दर्शनशुद्धिं सम्यक्त्वनैर्मल्यम्मुपलभन्ते तथा मनुजा अपि श्रावक श्राविकादिरूपा जिनभवने तथा कुर्वाणा दर्शनशुद्धिं लभन्ते, देवकृत्यं किमित्याह - 'जलथलय' मित्यादि, जलस्थलजकुसुमराशिं जले स्थले च जातानि यानि कुसुमानि तेषां राशिम् अभ्रकरूपां - वाईलाकारां विकुर्वणां कृत्वा जानुप्रमाणां वृष्टिं कुर्वन्ति देवाः, अत्राभ्राकारेण विकुर्वणा, न पुनः कुसुमानि विकुर्वितानि, आगमे 'जलजस्थलजे 'ति पाठश्रवणात्, वृष्टिं किंलक्षणा १ - सगन्धोदकां' प्रथमं गंधोदकवृष्टिं कृत्वा पश्चात् कुसुमवृष्टिमित्येवम्- अमुना प्रकारेण यथाशक्त्या श्रावकवर्गोऽपि तीर्थकराकारविचानि पुण्यार्थं पुष्पादिभिः पूजयतीति लुम्पकचक्षुषोऽञ्जन मितिगाथापञ्चकार्थः ।। ९०-९१-९२-९३-९४ ॥ अथाञ्जनप्रक्षेपनिमित्तं शलाकामाह सिं वंदणमुहं जिणवंदणसमफलति णो भिन्नं । तह जिणपडिमावंदणमंजणखेवे सिलागेसा ॥९६५ ॥ 'तेषां त्रयाणां जिनप्रतिरूपकाणां वन्दनप्रमुखं जिनवन्दनसमफलं जिनवन्दनाद्यभिग्रहनिस्तारकं चेति प्रवचने प्रतीतं, नो भिन्नफलं, तथा जिनप्रतिमावन्दनम्, अञ्जनप्रक्षेपे एषा शलाकेति गाथार्थः || ९५ || अथ किं संपन्नमित्याह एएणमंजणेणं नीरोअं चक्खु जस्स नो जायं । से कार्यबिंदुचक्खू उविखणिज्जं व दुसज्यं ॥ ९५ ॥ एतेनाञ्जनेन यस्य लुम्पकविशेषस्य चक्षुर्नीरोगं न जातं 'से' तस्य काचविन्दुचक्षुरुपेक्षणीयमसाध्यत्वाद्, अथवा दुःसाध्यं-बहुप्रयाससाध्यं तद्विधिरपि लुम्पकमतनिराकरणविश्रामे वक्ष्यते इति गाथार्थः । । ९६ ।। अथ तीर्थतीर्थाभासयोरुपसंहारमाहएवं जुत्तिदिसाए सम्मं अम्भसिअ तित्थआभासं । मुणिऊण तित्थसरणं कुणंतु भवा हु भद्दट्ठा ॥९७॥ एवमुक्तप्रकारया युक्तिदिशया सम्यग् अभ्यस्य तीर्थाभासं -कुपाक्षिकवर्ग ज्ञात्वा, परिहृत्येत्यर्थाद् ज्ञेयं, मव्यास्तीर्थशरणं कुर्वन्तु, अंजनं तच्छलाका च ।। ५८ ।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy