________________
श्रीप्रवचनपरीक्षा १विश्रामे
तित्थयरजीवरहिआ पडिमा पडिरूवगाइतह चेव । तित्थयरागारवसा बुद्धी तित्थयरविसयत्ति ॥११॥ प्रतिमापूजा पडिमाएवि समाणं गंधोदयपुप्फवुट्ठिमाईहिं । जह देवा तह मणुया दंसणसुद्धिं उवलहंति ॥९२॥ जलथलयकुसुमरासिं अभयरूवं विउवणं काउं । जाणुप्पमाणबुद्धिं करिंति देवा सगंधुदयं ॥९३॥
एवं जहसत्तीए सावयवग्गोऽवि पुप्फमाईहिं । पूएइ अ पुण्णट्ठा तित्थयरागारबिंबाई ॥१४॥ समवसरणे चतूरूपस्तीर्थकरो, धर्मोपदेशनां करोतीति गम्यं, यदागमः-"जे ते देवेहिं कया तिदिसि पडिरूवगा जिणवरस्स। तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं" १॥ श्रीआव०नि० (५५७) तथा “दानशीलतपोभावभेदाद्धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं,चतुर्वक्रोऽभवद्भवान्॥१॥” इति वीतरागस्तोत्रे,तथा “वप्रत्रयं चारु चतुर्मुखांगते"त्यादिनाऽतिशयोऽपि देवकृतो नाममालायां भणितः, ननु समवायाङ्गे येऽतिशयाः प्रोक्तास्तेषु चतुर्मुखाङ्गता नोक्ता अतः कथं श्रद्धेयेति चेत् , मैवं, यतस्ते नियताः, अनियतास्त्वन्येऽपि,यदुक्तम्-"होऊणवि देवकया चउतीसाइसयबाहिरा कीस। पागारंबुरुहाई अणण्णसरिसावि भोगम्मि?॥१॥ चउतीसं कि-1 रणिया ते गहिया सेसया अणिअयत्ति । सुत्तम्मिन संगहिया जह लद्धीओ अणिययाओ॥२॥” इति श्रीविशेषणवत्त्याम् । अत एवातिशयानां चतुस्त्रिंशवेन सङ्ख्थानियमेऽपि वैचित्र्यादेव समवायाङ्गवृत्तौ “एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्य"मिति भणितं, अत एव प्रवचनसारोद्धाराद्धौ चतुर्मुखांगतान्तर्भावेनैवातिशया भणिताः। तत्र यदि लुम्पाकस्य तीर्थकरसंबन्धीनि त्रीणि रूपाणि सम्मतानि तर्हि नियमेन प्रतिमा सम्मता, यथा तीर्थकरजीवरहिता प्रतिमा तथैव त्रीणि प्रतिरूपकाण्यपि तीर्थकरजीवरहितानीत्यर्थः, अथ तीर्थकराकारवशात्तेभ्यस्तीर्थकरविषया बुद्धिरिति चेचिरं जीव, प्रतिमायामपि समानं, तथा समवसरणे ॥५७।।