SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कुपाक्षिकविभागः श्रीप्रवचनपरीक्षा १विश्रामे ॥५६॥ स्तीर्थस्थापनाय समर्थ इति यो भाषते तेषां सोर्हन् , न चैतादृशस्तीर्थाभ्युपगतोऽर्हन्निति भिन्न इति गाथार्थः ॥ ८६ ॥ अथ | सिद्धविषये उत्तरमाह-तेषां-कुपाक्षिकाणां सिद्धा अपि तदुपदेशाद्-विकल्पिततीर्थकरोपदेशादुपलब्धाः श्रद्धया भवन्ति, ते च | तदुपदिष्टमार्गाराधनाजाता भिन्ना एव, तीर्थ तथाविधसिद्धानामश्रद्धानादेव, गौतमादिगणधरवर्गोऽपि निजमतिविकल्पितम्तीर्था|द्भिन्न एवेति गाथार्थः ॥८७।। अथोक्तकुपाक्षिकेषु विवेकमाह| तेसुवि लुंपगवजा पायं खलु कायबिंदुजुअनयणा । निम्मलनयणसमाणा दीसंति सुविजपरिवज्जा ॥८॥ | तेष्वपि-पौर्णिमीयकादिष्वपि लुम्पकवर्जाः प्रायः काचविन्दुयुतनयनाः निर्मलनयनसमाना-निर्मललोचनैः सह समाना दृश्यन्ते, |परं सुवैद्यपरित्याज्याः, तादृग्रोगस्यासाध्यत्वात् , तथा लुम्पकवर्जा अमी अपि, यतस्ते प्रतिमां तु वयमप्यङ्गीकुर्मः, शेषभेदस्तु | सामाचारीविशेषादकिश्चित्कर एव, तथा च यथाऽयं तपागणस्तथा वयमपीति धार्यमाश्रिताः साधूपदेशमपि न समीहन्ते, कथं | तेषां तत्प्रतीकारः?, तेन काचबिन्दुरोगकल्पं तथा धाष्टयं तदीयश्रद्धानदृष्टावसाध्यं, नचैवं लुम्पकस्यापीत्यनन्तरं वक्ष्यमाणमिति गाथार्थः ॥८८॥ अथ पृथक्कृतस्य लुम्पकस्य स्वरूपमाह लुंपकनयणातंकाणेगविहा तेण केइ सज्झावि । तेसुवि कोइ सुहंजणसज्झो से अंजणं एवं ॥८९ ॥ लुम्पकनयनातङ्का अनेकविधा-नानाप्रकारास्तेन केपि रोगविशेषाः साध्या अपि, तेष्वपि कोऽप्यञ्जनसाध्यः, 'से' तस्याञ्जनमेतद्-वक्ष्यमाणमिति गाथार्थः ॥८९॥ अथ गाथापंचकेनाञ्जनमाहसमुसरणे चउरूवो तित्थयरो तत्थ तिण्णि रूवाइं। जइ सम्मयाई पडिमा निअमेणं सम्मया होइ॥१०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy