SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १विश्रामे ॥५३॥ थोपदेशमालादिकं, शुद्धपाठस्तु वृषभवत्परतन्त्र इत्यक्षरार्थः, भावार्थस्त्वयं-प्रथमस्तावत्कुपाक्षिकैनवीनविपरीतप्ररूपणादिकं । सूत्रस्य विहितं, पश्चात्सिद्धान्तपाठस्तु यथास्थित एवाभ्युपगतः, तत्परावृत्तिकरणे शक्त्यभावात् , यस्य शक्तिरासीत् तैः पाठपरावृत्तिरपि | परतन्त्रता विहिता, यथा दिगम्बरेण, अर्थस्य तु परावृत्तिः सर्वैरपि कर्तुं शक्यते, यथा चैत्यशब्देनास्माभिर्ज्ञानमुच्यते, नतु जिनप्रतिमा, वृत्त्यादावेवमर्थो नास्ति, किंतु जिनप्रतिमैव,ततः टीकादिकमस्माभिर्नाङ्गीक्रियते इत्याद्यसमञ्जसवादे समुत्सुकीभवन्ति, सिद्धान्तस्तु सूत्रार्थोभयात्मकः, स च तैर्नाभ्युपगतः, यस्तु केवलपाठः स च वृषभवत् परतन्त्रो, यत्र नीयते तत्र यातीतिगाथार्थः ॥७८॥ अथ पाठो वृषभवत् परतन्त्रस्तेन प्रकृते किं संपनमित्याह तेण विवरीअअत्थं भासिज्जंतं विअत्तभासाए। न य पुक्करेइ सुत्तं आगरिसपुरिसगयणुगइ ॥७९॥ येन कारणेन पाठः परतन्त्रस्तेन कारणेन विपरीतार्थतया भाष्यमाणं सूत्रं व्यक्तभाषया न च पूत्कुरुते, तत्र विशेषणद्वारा हेतुमाह-किंभूतं सूत्रं ?-'आगरिसे'त्यादि आकर्षकपुरुषगत्यनुगति, रज्ज्वादिना गृहीत्वा पुरो गन्ता आकर्षकस्तस्य या गतिस्तस्या | अनु-पश्चाद् गतिर्यस्य तदाकर्षपुरुषगत्यनुगति सूत्रम्, आकर्षको यत्र यत्र नयति तत्र यातीति वृषभोपमं सूत्र, यो यथा विकलप्याथं करोति तदेवार्थमनुगच्छति, अतः केवलसूत्रपाठस्तु सिद्धान्त एव न भवति, किंतु सूत्रार्थोभयात्मक इति गाथार्थः ॥७९॥ अथ केवलपाठः कीदृक् स्यादित्याह तेणेवागमपाढो न य ववहारप्पवायगो समए । भिन्नो वाऽभिन्नो वा भिन्नो निअमेण भिन्नत्थो ॥८॥ येन कारणेनागमपाठो वृषभकल्पस्तेन कारणेनागमपाठो 'नच' नैव 'व्यवहारप्रवादकः' प्रवृत्तिनिवृत्तिरूपं व्यवहार प्रवद-II ॥५३॥ HER INEEMUCHARITRAMRIDAPARAMBI a mlinum
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy