SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जिनसिद्धादीनामाभासता ANI श्रीप्रव- खरतराः, आञ्चलिकाः श्राद्धानां सामायिकादावश्चलं-पल्लवं प्ररूपयन्तं तीर्थकर,फलपूजादिनिषेधं कुर्वन्तमर्हन्तं सार्द्धपौर्णिभीयकाः, बनपरीक्षा श्रुतदेवतास्तुतिप्रमुखं प्रतिषेधयन्तमागमिकाः, जिनप्रतिमानिषेधोपदेशकुशलं लुम्पाका जिनं लपन्ति,तीर्थार्दू-श्रावकश्राविकालक्ष-| १विश्रामे णमपि प्रमाणं वदन्तमहन्तं कडुकाः, 'बीजो' बीजाख्यो वणरकारादिभिर्द्रव्यश्रुतहेतुभिरपि हीनः प्रायोऽतिमूर्खः प्रतिमां मुक्त्वा लुम्पाकं सत्यं-लुम्पाकमते प्रतिमानङ्गीकारस्तदसत्यं, शेषं तु सत्यमेवेति वदन्तमर्हन्तम् , अणुमात्रमपि कर्मवन्धो यत्रैवंविधं धर्ममभाषमाणं पाशोऽर्हन्तं वदतीति दशानामपि निजानेजविकल्पारूढास्तीर्थकृतो भिन्नभिन्ना एवेति गाथापञ्चकार्थः ।। ७१-७२७३-७४-७५ ॥ अथ गाथापञ्चकोपसंहारमाह एवं सबकुवक्खा पडिवण्णा भिण्णभिण्णतित्थयरं। परमत्था सिवभूइप्पमुहे ते तारिसे नऽन्ने ॥७६।। सिद्धवि य तम्मग्गाराहणपुवा य एवमवि सेसा। तित्थभिहाणाभासा भासाभासा य किरियासु ॥७७॥ | एवं प्रागुक्ताः सर्वे कुपाक्षिकाः भिन्नभिन्नतीर्थकरं प्रतिपन्नाः, ते च तीर्थकराः 'परमार्थात् ' वस्तुगत्या शिवभूतिप्रमुखा एव, नान्ये, तथाविधप्ररूपणाविशिष्टा न तीर्थसम्मता ऋषभादयः, विशेषणभेदे च विशिष्टस्यावश्यंभेदाद् ,एकनामवाच्याश्चानेकेपि पदासर्था भवन्ति, अतो नाम्नामनेकार्थताऽपि, तत्र विशेषप्रतिपत्तिर्विशेषणैरेव स्यात् , यथा 'गोपाङ्गनासङ्गनिबद्धरङ्गो, गीर्वाणगेयाङ्गगुणो जिनोऽव्यादि'त्यत्राद्यपदवाच्यार्थविशेषणेन जिनशब्देन नारायण एवावगम्यते, न तु जैनाभिमतोऽहन् , तथा 'पायात्सदा नः पुरुपोत्तमो यो, जितेन्द्रियोऽनङ्गकुरङ्गहेतु रित्यत्रोत्तरपदे वाच्यार्थविशेषणान्वितेन पुरुषोत्तमशब्देनाहन्नेव, न तु नारायणः, एवं सर्वत्रापि नाम्नामभेदेऽपि विशेषणभेदाढ़ेदः, अन्यथा जगब्यवस्थाभङ्गः स्यात् , न हि भूपतिनामा रोरः कश्चित् तन्नामवतो राज्ञो राज्य MBAPURI ॥५१॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy