SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे ।। ५० ।। आरोपेण सर्वेऽपि पदार्थाः सर्वैः शब्दैरमिलाप्या भवन्ति, येन कारणेन यथेप्सितसंकेतो - यथारुचि विकल्पितः संकेतो ह्यनिवार्य इति गाथार्थः ||६९ || अथ यथेप्सितसंकेते उदाहरणमाह जह चेइअसद्देणं णाणं साहू अ साहिपमुहाई । लुंपगविगप्पिआई तेणं ते तम्मए अत्था ॥ ७० ॥ यथेत्युदाहरणोपन्यासे, चैत्यशब्देन ज्ञानं साधुश्च शाखिप्रमुखाणि वृक्षादीनि 'लुम्पकविकल्पितानि' लुम्पकेन संकेतविषयीकृतानि, | तेन कारणेन तन्मते चैत्यशब्देन तेऽर्था बोध्याः, यथा वर्द्धमानादिनाम्ना लोके निजनिजपुत्रादीनामभिसंधारणं भवति तथा | लुम्पकमतीयानां चैत्यशब्देन ज्ञानादीनामभिसंधारणं भवति, अत एव तेषां सिद्धान्तो न जैनसिद्धान्तः, किंतु लुम्पकमतसिद्धान्त एव, वस्तुगत्या तु अर्थ एव सिद्धान्तः, स च भिन्न एवेति गाथार्थः ॥ ७० ॥ अथ प्रस्तुतं कुपाक्षिकेषु योजयितुं गाथापञ्चकमाहएवं खलु तित्थयरं इत्थीमुत्तिनिसेहगं खमणा । पुण्णिमिआ पुण पुण्णिमपखिअदक्खं जिणं बिंति ॥ ७१ ॥ इत्थीणं जिण आप डिसेहपरायणंपि खरयरया । अंचलिआ अंचलयं परूवयंतंपि सड्ढाणं ॥ ७२ ॥ फलपूआइनिसेहं कुणमाणं सड्ढपुण्णिमो अरिहं । सुअदेवीथुइपमुहं पडिसेहतं तु आगमिआ ||७३|| जिणपडिमाइनि सेहो एसकुसलं लवंति लुंपागा । तित्थद्वेपि पमाणं वयंतमरिहंतमवि कडुओ ||७४॥ वीजो वण्णविहीणो पडिमं मोत्तूण लुंपगं सच्चं । अणुमित्तकम्मबंधं धम्ममभासंतमवि पासो ॥७५॥ एवं प्रागुक्तसंकेतादिप्रकारेणारोपे सति, खलुरवधारणे, क्षपणकाः स्त्रीमुक्तिनिषेधकं तीर्थकरं भणन्ति, पौर्णिमीयकाः पुनः 'पूर्णिमायाक्षिकदक्षं' पूर्णिमायां पाक्षिकव्यवस्थापने यो दक्षस्तं जिनं ब्रुवन्ति, तथा पर्वातिरिक्तदिने पौषध (स्य स्त्रीणां जिनपूजायाश्च) निषेधपरायणं | विकल्पितसंकेताः 114011
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy