________________
अव्यक्तमिन द्धान्तता
श्रीप्रवचनपरीक्षा १विश्रामे ॥४८॥
SONUMIDIPTIMINAThIRAHI
सूरिपरम्परारहितः पुस्तकलिखितश्च सिद्धान्तः त्रयाणामागमानां केन नाम्ना कीदृशः१, किमात्मागम उतानन्तरागमः पर|म्परागमो वेति परस्योदीरणेति गाथार्थः ॥६४॥ अथैवं पृष्टः परः कीदृग् स्यादित्याह
एवं खलु पुच्छिओ सो वेसातणउच्च जणयममुणंतो। कोवि अहोहि अवत्तं संणेई एलम्उच्च ॥६५॥ एवमनन्तरोक्तप्रकारेण, खलुरवधारणे, पृष्टः सन् स कुपाक्षिको जनकमजानन् 'वेश्यातनुज इव' पण्याङ्गनापुत्रवत् कोऽपि च | 'होही ति भविष्यतीत्यव्यक्तं सिद्धान्तं संज्ञयति, किंवद् ?-एडमूकवद्, अयं भावः- यथा एडमूकः केनचित् कथञ्चित् संज्ञाविशेषेण पृष्टः सन् वक्तुमशक्तः सन् करादिना संज्ञां करोति, परं तथा संज्ञां करोति यथाऽन्येषां सम्यग्वस्तुपरिज्ञानं भवति, अयं तु सिद्धान्तमव्यक्तमेव संज्ञयति, यथा वेश्यापुत्रो जनकं ब्रुवाणो हि कोऽपीत्यव्यक्त भाषते, दृष्टान्तद्वयेन एडमूकवेश्यातनूजकल्पः कुपाक्षिकः सिद्धान्तवादी प्रदर्शितः, आस्तां कुपाक्षिकस्तथा आचारहीनोऽपि ब्रुवाणस्तथैव भवति, यदागमः-"दुवसुसुणी अणाणाए तुच्छए गिलायइ वत्तए"त्ति श्रीआचारांगे लोकवि० (उ०६ सू-१०१) एतट्टीकादेशो यथा-क्वचित्संशीतिविषये केनचित्पृष्टो|ऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयान् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितु"मित्यादि आ०, इति गाथार्थः॥६५॥ अथैवमागममव्यक्तं ब्रुवाणस्य किं स्यादित्याहजह आगमो अवत्तो विगप्पिअत्थो तहेव तम्मूलं । तित्थयरोवि अवत्तो तं तयवच्चाइ अवत्ता ॥६६॥
कुपाक्षिकाणां विकल्पितार्थ:-निजनिजमतानुसारेण विकल्पितोऽर्थो यस्यैवंविध आगमो यथाऽव्यक्तः, विकल्पितार्थो हि सिद्धान्तो जारगर्भ इव सजनपर्षद्यव्यक्त एव स्थादित्यर्थः, तथा तन्मूलं तीर्थकरोऽप्यव्यक्त एव, यथा केनचित्पृष्टं ननु भोः एता
JANUARATHIMADARATHIRAIPURTHIARPARIMAR
RAINMMAPTITIATIMADIRIHITHALIPE