SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दिनां श्रीप्रवचनपरीक्षा १विश्रामे ॥४६॥ गाथासु वक्ष्यते, तथा 'दशविधसामाचारी' 'इच्छामिन्छे त्यादिदशप्रकारा गुरुशिष्यसंवन्धे सत्येव संभवति,तथा पञ्च व्यवहाराः- | पुस्तकवाआगमश्रुताज्ञाधारणाजीतलक्षणा न संभवन्ति, तत्रापि श्रुतजीतौ केवलगुर्वायत्तावेव, कथं पुस्तकायत्ताविति, तथाऽयं वाचनायोग्योऽयं च नेति वाचनायोग्यायोग्यविचारो न संभवति, पुस्तकस्य तत्रासामर्थ्यात् , न हि पुस्तकं योग्यमयोग्यं च विवेचयितुं सामाचा योधभाव: शक्नोति, तथा वाचनायां विधिः-उद्देशसमुद्देशादिलक्षणो गुरुक्रमायातो न पुस्तकसाध्यः,तथा छेदोपस्थापनीयं चारित्रं गुरुमन्तरेण न संभवत्येव, गुरुणैव सामायिकोच्छेदपूर्वकं तस्यारोप्यमाणत्वाद् , आदिशब्दात् सामायिकादीनामपि यथासंभवमायोज्यं, तथा ज्ञानादीनामाराधनविधयोऽपि योगाद्यनुष्ठानपूर्वकमध्ययनाध्यापनादिलक्षणाः पुस्तकदृष्टीनां 'न हु'नैव, संभवन्तीति क्रिया ।। सर्वत्रापि संबन्धनीया, विस्तरजिज्ञासुना तु मत्कृतपर्युषणादशशतकटीकाऽवलोकनीयेति गाथायुग्मार्थः ॥६०-६१॥ अथ | पुस्तकवादिनो यदेव पुस्तके लिखितं तदेव प्रमाणं, न पुनः परम्परायातमपीति वदन्ति, तदसम्यक् , यतः क्वापि पुस्तकेऽपीत्थं लिखितं नास्ति यत्पुस्तकलिखितादन्यदसम्यग् , यद्वा पुस्तकं दृष्ट्वा ये धर्म प्ररूपयिष्यंति ते सम्यक्तयाऽवगन्तव्या इत्यपि क्वापि | पुस्तके लिखितं, यद्वोच्छिन्नं तीर्थममुकादाचार्यात् प्रकटीभविष्यतीत्यपि क्वापि नास्ति, कथमेते धाष्टर्थमवलम्ब्य पुस्तकं शरणं | प्रपद्यन्ते ?, एवं 'पिता मे कुमारब्रह्मचारी'ति न्यायमापन्नानामध्यक्षसिद्धमेव मृषाभाषित्वं, यतो वयं पुस्तकलिखितप्रमाणवादिन | इत्येवं वाचाटा अपि पुस्तकालिखितमप्यनन्तरोक्तं स्वीकुर्वन्ति, परिहरन्ति च पुस्तकलिखितमपि दशविधसामाचारीपञ्चव्यवहारा| दिकमच्छिन्नतीर्थ दुष्प्रसभं यावदित्यादि च ॥ एवं सत्यपि पुस्तकवादित्वे लौकिकदृष्टान्तमाहववहारिअकुलवडिओ आयारोघरउवक्खरोसयलो। किं लेक्खगंमि लिहिओ ताकह सूरीण कुलवडिओ॥३२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy