SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ LIN श्रीप्रवचनपरीक्षा १विश्रामे ॥४५॥ पुस्तकशरणानां सौधर्मानपत्यता PERHI 'तेष्वपि' दिगम्बरादिष्वपि पूर्णिमाप्रमुखाः 'पुस्तकशरणा' पुस्तकमेव शरणं येषां ते तथा, परम्पराशून्याः, किमसाक परम्परया प्रयोजनं ?, पुस्तकलिखितसिद्धान्तं शरणीकृत्य प्रवद्महे इत्यसमीक्ष्यभाषिणः,तेषां प्रासङ्गिक साधारणस्वरूपं भणाम इति | C गाथार्थः ॥५८॥ अथ ते तीर्थमध्यवर्तिनो न भवन्तीत्याह सोहम्मावच्चिजा अच्छिन्ना जाव दुप्पसहसूरी।तेहितो ते भिन्ना जं ते पुत्थाउ नो जाया ॥५९॥ सौधर्मापत्यान्यच्छिन्नानि यावदुष्प्रसभमूरिः,व्युच्छिन्ने च तीर्थे तीर्थकरमन्तरेण केवलिनाऽपि तीर्थ प्रकटीकर्तुमशक्यमिति प्राक् | अपश्चितं, पूर्णिमादयस्तु श्रीसुधर्मापत्येभ्यो भिन्ना एव, तत्र हेतुमाह-'जं ते'त्ति यमात् ते श्रीसुधर्मापत्यानि न पुस्तकाजाताः, यो यथोत्पद्यते तज्जातीयस्तेनैव विधिना, यथा गर्भजाद्गर्भजोत्पत्तिन पुनः संमृच्छिमादपि, यातु गर्भजात् संमूछिमोत्पत्तिः सा च न तदपत्यव्यवहारहेतुः, अपत्योत्पत्तिप्रकाराद्भिन्नप्रकारेणैवोत्पत्तेः, न हि मातृशरीरोत्पन्नाऽपि षट्पदी भगिनीव्यवहारविषयः, भगिन्युत्पत्तिप्रकारागिन्नप्रकारेणैवोत्पत्तेः, एवं पूर्णिमादिष्वपि योज्यं, तदेवं तीर्थे समुत्पन्ना अपि पौर्णिमीयकादयो न साधुवत्समुत्पन्नाः, किंतु पुस्तकमूलकत्वेन मिन्नप्रकारेणोत्पन्नाः, यथा मातुः शरीरे पट्पदीति गाथार्थः ॥५९॥ अथ पुस्तकशरणानां यन्न संभवति तद्दर्शनाय गाथाद्वयेन दिशमाहपंच परमेट्टि दसविह सामायारी अ पंच ववहारा । वायणजुग्गाजुग्गा जुग्गाणवि वायणमि विही ॥३०॥ छेओवट्ठावणिअप्पमुहुचाराइ णाणमाईणं । आराहणाइविहओ पुत्थयदिट्ठीण नहु हुंति ॥६१॥ पुस्तकवादिनां पञ्च परमेष्ठिनस्तीर्थामिमता न संभवन्ति, तन्मते चाहंदादीनां भिन्नत्वादिति, 'पंच खलु तित्थयर'मित्यादि ॥४५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy