________________
श्रीप्रकचनपरीक्षा १विश्रामे ॥४३॥
परम्पराशरणतातीर्थस्य
JAmandarmanandHARASHTRANntalianHRISTIANE
AIHARIHASHMIRIN HINTAMANISAPAARAMATAPanama malPAL
एवं फलवं सुत्तं तित्थयरपवहिअंमि तित्थंमि। तित्थं पुण अच्छिन्नं वीरस्स य जाव दुप्पसहो॥५५॥
'एवम्' उक्तदृष्टान्तेन तीर्थसूत्रं फलवद् , दृश्यते इति गम्यं, तत्रोक्तसामग्र्या विद्यमानत्वात् , तीर्थ च कियत्कालं भवतीत्याह-तीर्थ पुनरच्छिन्नं यावदुष्प्रसभसूरिस्तावदनवरतं वर्तते, कस्य !-वीरस्य, यदागमः-"जंबूदीवे णं भंते! दीवे भारहे वासे, इमीसे ओसप्पिणीए देवाणुप्पिआणं केवइयं कालं तित्थं अणुसजिस्सइ ?, गोअमा! जंबुदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए मम इक्वीसं वाससहस्साई तित्थं अणुसजिस्सई"त्ति श्रीभग० श० २० उ०८ (सू. ६८०) इति गाथार्थः॥५५।। अथ परम्पराशरणं सूत्रमिति द्वितीयं विकल्पं सम्यगितिकृत्वा समर्थयन्नाह
तेण परंपरसरणं सुत्तं तित्थस्स सम्मयं णेअंसेसा मयगोपासे भमंति पयपाणआसाए॥५६॥ 'तेन' प्रागुक्तयुक्तिप्रकारेण परम्पराशरणं सूत्रं भवति, परम्परा च तीर्थ, तच्च पुरुषपरिपाट्याच्छिन्नमितिकृत्वा पुस्तकशरणं न भवति, पुस्तकलिखनकालात् पूर्व सूत्रस्याभावापया लिखनमप्युच्छिन्नसंकथं कथं पुस्तकशरणता सूत्रस्येति कुपाक्षिकाणामनिष्टं, यतः परम्पराशरणं तत एव सम्प्रत्यागमः परम्पराविशिष्टस्तृतीय एव, यदागमः-"आगमे तिविहे पं०२०-अत्तागमे अणंतरागमे परंपरागमे"त्ति भी अनु० (स. १४४ व. २१९) तत्राद्यौ गणधरशिष्यान्तौ, तृतीयस्तु तीर्थपर्यावसायीति, तदेव सूत्रं तीर्थसम्मतं ज्ञेयं, शेषाः-तीर्थवाद्या वक्ष्यमाणाः कुपाक्षिकाः पयःपानाशया मृतगोः पार्श्वे भ्रमन्ति, उक्तलक्षणयोग्यताया अभावाद्, आस्तां पयःपानाशापूर्तिः दरे,लोकनिंदास्पदमेव भवन्तीतिगाथार्थः॥५६॥ अथ वक्ष्यमाणयुक्त्या कुपाक्षिकाभ्युपगतं सूत्रमेव न भवति, किंतु स्वाभास एव, सच तन्मूलस्याभासत्वे सति सिक्ष्यतीति तन्मूलस्याभासत्वराह