SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा १ विश्रामे 1180 11 स्वरूपमापन्नः पुरुषोऽपि ' योग्यतायुक्तः' दायकयोग्यतायुक्तो ददाति, ग्राहकयोग्यतायुक्तश्च गृह्णातीति, पुरुष इत्यत्रैकवचनं दायकेन युक्तो ग्राहको ग्राहकेण युक्तो दायको वेत्येवं विग्रहेण बोध्यम्, अत एव " पासगस्स नत्थि उवएसो "त्ति ( आचा. ८-८२) प्रवचनं, तस्य योग्यताया अभावाद्, अथोभयोर्योग्यतायां दृष्टान्तमाह- 'तेने 'त्यादि, तेन कारणेन येन योग्यतामा पन्नस्तेनैव त्रिपदीमात्रात् 'उ| पन्ने वा विगमेइ वा धुवेइ वे 'ति मातृकापदमात्रात् द्वादशाऽङ्ग्या रचना, तीर्थकृद्गणधरयोर्द्वयोरपि दायकग्राहकयोर्योग्यतामापन्नत्वाद्, | आस्तां द्वयोः, एकतरस्याप्यभावे त्रिपदी न फलवती, त्रिपदीदाने योग्यतामापन्नोऽपि भगवान् वीरः श्रीगौतमाद्येकादशगणभृदतिरिक्तेषु न द्वादशाङ्गीरचनाहेतुः, न च ग्राहकयोग्यतामापन्ना अपि गणभृतो भगवन्तमन्तरेण त्रिपद्यवाप्तावपि तथासामर्थ्य भाजः, अत एव 'संजोगसिद्धीइ फलं वयंति' (आव. १०२) प्रवचनवचनम्, अत एव च विद्यमानापि त्रिपदी नेदानीं फलवती, द्वयोरपि दायकग्राहकयोर्योग्यताया अभावात्, किंच - त्रिपदीदृष्टान्तेन केवलं सूत्रं न फलवदित्यपि कुपाक्षिकस्तिरस्करणीयः, केवलसूत्रवादी प्रवचने मिथ्या| दृगपि भणितः, यदागमः - " अपरिच्छिअसुअनिहसस्स केवलमभिन्नसुत्तचारिस्स । सन्बुजमेणवि कयं अण्णाणतवे बहुं पडइ ॥ १ ॥ (४१५) इति श्रीउपदेशमालायामिति गाथार्थः ॥ ५१ ॥ अथ योग्यतायामयोग्यतायां चोदाहरणमाह वज्रंपि कज्जजणयं सक्कपयत्तेण जुग्गयाजुत्ते । आगासखंडकरणे असमत्थं सक्कबलमुत्तं ॥ ५२ ॥ वज्रमपि कार्यजनकं शक्रप्रयत्नेन योग्यतायुक्ते वस्तुनि स्यात्, आकाशखण्डकरणे शक्रेण निजबलमुक्तमप्यसमर्थम्, आकाशस्य | खण्डशो भवनायोग्यत्वाद्, एवं पुरुषायत्तमपि सूत्रं दायकग्राहक योग्यतायामेव फलवत्, नान्यथेति वज्रदृष्टान्त इति गाथार्थः ॥ ५२ ॥ | अथ पुनरपि सर्वप्रतीतं दृष्टान्तरान्तरमाह सूत्र पुस्त कशरणनिरासः ॥ ४० ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy