________________
M
सूत्रपुस्त
कशरण
श्रीप्रवचनपरीक्षा १विश्रामे ॥३९॥
निरास:
| यामः, येन युक्तिप्रकारेण दीपरूपेण-प्रदीपकल्पेन तीर्थातीर्थस्वरूपं स्फुटं स्यात् ,कस्य?-आस्तां सूक्ष्मदृग् , स्थूलमतेरपि, तेन कारणेन कुत्रचिदंशे पुनरपि भणनमपि वारं वारं कथनमपि दृश्यते 'इह' अधिकारे अस्मिन् प्रकरणे वा,न पुनरुक्तदोषश्चिन्तनीयः,चोऽप्यर्थे, न चिन्तनीयोऽपि, भाषणं तु दूरे इत्यपिशब्दार्थः, एवं कुतो ?, यतः सोऽभ्यासः, स च पुनः पुनर्भणनेनैव स्यादितिगाथात्रयार्थः | ॥४६-४७-४८॥ त्रिभिर्विशेषकं । अथ प्रथमं कुपक्षमात्रखरूपमाह
प्रायं कुपक्खपक्खो उसुत्तसरणो हविज वयणेणं । सुत्तं पुत्थयसरणं नणु किंच परंपरासरणं ॥४९॥ | 'प्रायो' बाहुल्येन कुपक्षपक्षस्तु वचनेन वचोमात्रेण, नतु मनसाऽपि, सूत्रशरणो भवेत्, अस्माकं सूत्रमेव प्रमाणं, न वृत्त्यादिकमपीत्यादिवचोमात्रेण सूत्रशरण इत्यर्थः, तत्रैवं प्रष्टव्यं-ननु भोः सूत्रं पुस्तकशरणं किंवा परम्पराशरणमिति विकल्पद्वयी, तत्र पुस्तकमेव शरणम्-आश्रयो यस्य तत्पुस्तकशरणं, परम्परा-अच्छिन्नपुरुषप्रवाहः सैव शरणं यस्येति परम्पराशरणमिति, कुपाक्षिकाकूतमेव प्रश्नद्वारा विकल्पितमितिगाथार्थः ॥४९॥ अथ प्रथमविकल्पाकृतं दृषयितुमाह
पुत्थयसरणं सुत्तं फलवं न हु होइ केवलं किंतु । पुरिसायत्तं पुरिसो पयत्ततोऽवि विहिविण्णू ॥५०॥
केवलं पुस्तकशरणं सूत्रं फलवन भवेत् ,किंतु'-'पुरुषायत्तं' पुरुषपरतन्त्रं, पुरुषोऽपि न यःकश्चित् , किंतु,प्रयत्नवानपि विधिज्ञः, सूत्रस्य ग्रहणे दाने च विधि जानातीति विधिज्ञ इति गाथार्थः ॥५०॥ अथ विधिज्ञोऽपि कीदृक् स्यादित्याह
सोऽवि अ दायगगाहगभावापन्नोवि जुग्गयाजुत्तो। तेणं तिपईमित्ता दुवालसंगीइ रयणावि॥५१॥ 'सोऽपि च विधिज्ञोऽपि चदायकग्राहकभावापना,श्रुतज्ञानं हि द्वाभ्यामेव साध्यं,तत्रको दायकोऽपरो ग्राहकश्चेति, एवंरूपेण
A HITIRTHIPPIRITHILIPPIRATRAININAGARIAS
11.३९॥