________________
श्रीप्रवचनपरीक्षा
उच्छेदध्या
रविश्रा
॥३७॥
नास्मादन्यो धर्म इत्यर्थः,अनेन रौद्रध्यानं दूरे, प्रत्युत परधर्म एव तदीयमताहानिविकल्प इति दर्शितम् । अत एव "निव्वुइपहसासणयं जयइ सया सबभावदेसणयं । कुसमयमयनासणयं जिणिंदवरवीरसासणय" । (नन्दी-२२५) इत्यादिवचोभिः प्रवचनविषयकाऽऽशीरपीतिगाथार्थः ॥४३।। अथ तीर्थहानि कुपाक्षिकहानि चेच्छतोः परस्परं महदन्तरं, तदेव दृष्टान्तेनाह
किं धिज्जाइज्झाणं सरिसं हरिएसिजक्खझाणेण । असुई लित्तो पाओ चंदणलित्तेण किं सरिसो॥४४॥ 'घिग्जातिध्यान' ब्राह्मणकुमाराणां ध्यानं 'हरिकेशियक्षध्यानेन' हरिकेशिसाधोयावृत्त्यकरस्य तिन्दुकनाम्नो यक्षस्य ध्यानेन सदृशं | किं भवेद् !, अपितु न भवेत् , यतः कुमारध्यानं मुनिहननविषयं, यक्षस्य तु कुमारहननेऽपि मुनिरक्षणेन वैयावृत्यविषयकं, न पुनः रागद्वेषप्रभवं, यदागमः-"पुचि च इण्डिं च अणागयं च, मणप्पदोसो न मे अत्थि कोई। जक्खा हु वेआवडिअं करिति, तम्हा उ एए निहया कुमारा" ॥१॥ इतिश्री उ० (३९-५) वैयावृत्यं हि महानिर्जराहेतुरित्यग्रे वक्ष्यते, तसाभूननाभिप्रायसाम्येऽपि द्वयोर्ध्यानयोर्महदन्तरम् , एवं कुपाक्षिकाणां तीर्थोच्छेदविषयकध्यानमसाकं च तीर्थरोगकल्पस्य कुपाक्षिकपक्षस्योच्छेदविषयकमिति उच्छेदध्यानसाम्येऽपि एकस्य धर्मध्यानमपरस्य रौद्रध्यानमिति, तत्रापि दृष्टान्तमाह-'असुईलित्तो'त्ति अशुचिना-पुरीपादिद्रव्येण लिप्तः पादः किं चन्दमलिप्तेन पादेन समः स्याद् ?, अपितु न स्यात् , एवं लिप्तत्वेन साम्येऽपि अशुचिलिप्तः पादो जलेन धौत एव शृभानुष्ठानप्रवृत्तिहेतुः स्यात् , चन्दनलिप्तस्तु स्वत एव विशेषतः स्याबू, एवं तीर्थोच्छेदध्यानं पुरीषकल्पं कुपाक्षिकोच्छेदध्यानं च चन्दनकल्पम् , एवं विमलवाहनध्यानं विकल्पं सुमङ्गलसाधोश्च ध्यान चन्दनकल्पमित्यादि स्वयमेवालोच्यम् , एवं च ध्यानं जीवयोग्यतयैव समापतितं, यथा आहारविषयकध्यानसाम्येऽपि हंसस्य कमलपत्राण्येव संपन्नानि, काकादीनां तु विड्
રેણી