________________
श्रीप्रवचनपरीक्षा १विश्रामे
कुपक्षोच्छेदोधर्मः
कुर्वन्नपि जमाल्यादिवत्प्रतिसमयमनन्तसंसारमेव निर्वयति, असंख्यातसमयात्मके तन्निजायुषा अन्तर्मुहूर्तेन वा प्रतिसमयमनन्तसंसारबद्धथभावेऽनन्तसंसारासंभवादितिगाथार्थः ॥४१॥ अथ तीर्थप्रद्वेषात् यथा कुपाक्षिका रुद्रपरिणामाः स्युः यथा कुपाक्षिक| प्रद्वेषात्तीर्थान्तर्वतिनो भवन्तोऽपि कथं न स्युरिति पराशङ्कोद्भावनामाहणणु तुम्हाणवि दोसो कुपक्खपक्खमि दीसई पयडो। तो भे रुद्दज्झाणं हाणि अण्णेसमाणाणं ॥४२॥
नन्विति परप्रश्ने, ननु भोः तीर्थपक्षपातिनः! युष्माकमपि, अपिशब्दाद् यथा तीर्थे द्वेषः कुपाक्षिकाणां तथा युष्माकमपि, कुपक्षपक्षे द्वेषो दृश्यते 'तो' तस्मात् यथा तीर्थोच्छेदमिच्छतां कुपाक्षिकाणां रुद्रध्यानं तथा भवतामपि हानिम्-अर्थात्कुपाक्षिकाणामन्वेषयतां-कुपाक्षिकोच्छेदमिच्छतां रौद्रध्यानं भवत्येव, विनाशाभिप्रायस्योभयत्रापि तौल्यादितिपराशङ्केति गाथार्थः ॥४२॥ अथ | पराशङ्कामेव पराकरोतिनेवं वोत्तुं जुत्तं जं सो तित्थस्स परमरोगुत्ति । तस्सवि हाणिविगप्पो जयऽधम्मो केरिसो धम्मो? ॥४३॥
'एवं' प्रागुक्तं 'ननु तुम्हाण'मित्यादि तद्वक्तुम् अपिमध्याहृत्य वक्तुमपि न युक्तं, यद्-यस्मात्कारणात् 'सः' कुपाक्षिकपक्ष| स्तीर्थस्य परमरोगः-उत्कृष्टातङ्क इव, यथोत्कृष्टरोगोऽसह्यवेदनया रुधिरमांसादिशोषणेन पुष्टमपि पुरुषं कृशीकरोति बलवन्तमपि दुर्बलं
तथा कुपाक्षिकपक्षोऽप्युत्सूत्रप्ररूपणरूपयाऽसह्यवेदनया तीर्थान्तर्गतश्रावकादिसमुदायमादाय तीर्थमेव कृशीकरोति, तच्चाध्यक्षसिद्ध| मेव, यतो यावन्तो वक्ष्यमाणाः कुपाक्षिकास्तैस्तीर्थसंवन्धिन एव श्रावकादीन् व्युद्ग्राह्य आस्तां तीर्थत्याजनं प्रत्युतानायलोकवत् | तीर्थप्रतिकूलवर्तिन एव विहिताः, 'तस्यापि' कुपक्षिकपक्षस्यापि तीर्थमहारोगस्य हानिविकल्पो यद्यधर्मस्तर्हि धर्मः कीदृशः स्यात् १,
॥३६