________________
पौर्णिमीयीकादयः
S
श्रीप्रबचनपरीक्षा १विश्रामे ॥३३॥
TAIRANIDIDATIARPATILIPINATHAHAPalkinanimali
परित्यक्तः, कुतः ?-'सर्वथा' सर्वप्रकारेण, सर्वसंबन्धाद् ,अयं भावः-अयं च तीर्थबाह्यः, अतो नालापाद्यपि विधेयमित्येवंरूपेण सर्वप्रकारेण सर्वसंबन्धात्परित्यक्तस्तेन स तीर्थान्न विमेति, 'नहि मृतः पुनम्रियते' इतिन्यायात् सर्वसंबन्धाभावे कुतो भयमिति बोध्यमितिगाथार्थः ॥३७॥ अथ शेषाणां दिगम्बरापेक्षया बैलक्षण्यं दर्शयबाहसेसा अकिंचिगणिआ पढमं तित्थेण कालबलजोगा। पच्छा पसइमुवगया जह वणलेसोवि सुप्पसरो॥३८॥
शेषाः-पौर्णिमीयकादयो नवापि तीर्थेन प्रथममुत्पत्तिसमये अकिश्चिद्गुणिताः, किमनेन वराकेण तीर्थस्य स्यादित्येवंरूपेणाकिञ्चित्तया चिन्तिताः, एवं चिन्तनं कुतः ?-'कालबलयोगाद्', अवश्यं भाविनी प्रवचनपीडेति हेतुना, कश्चित्कालस्तथा परिणतो यस्य बलयोगात्कुपाक्षिकेषूपेक्षैव जाता तीर्थस्येति,अथ साम्प्रतमपि दिगम्बरादिवत् कथं न क्रियते ?, तत्र हेतुमाह-पच्छे| त्यादि, पश्चाद् अनुक्रमेण प्रसृर्ति-प्रसारमुपगताः, तीर्थसमीपस्था एव वृद्धि प्राप्ता इत्यर्थः, तत्र दृष्टान्तमाह-'जह वणे'त्यादि, यथा 'व्रणलेशोऽपि' सूक्ष्मव्रणोऽपि सुप्रसरः-अतिप्रसरवान् भवति, अत एव सूक्ष्मोऽपि व्रणो न विश्वसनीयः, यदागमः-"अण थोवं वणथोवं अग्गीथोवं कसाय थोवं च । न हु मे वीससिअवं थेवंपिहु तं बहुं होइ।।शत्ति श्री आव०नि० (१२०) इति गाथार्थः। ॥३८॥ अथानन्तरं यदुक्तं 'जम्हा कुवक्खपक्खो' इत्यादि तत्समर्थनपुरस्सरं व्यक्त्या तीर्थ दर्शयति
ते पुण जम्हा निअमा ससंकिआ तंपि संपयं भरहे। तवगणतित्थं णेअंकणगं व परिक्खपञ्चक्वं ॥३९॥
ते पुनः-पौर्णिमीयकादयः सशङ्किताः-सभया भवन्ति यस्मात् 'तंपित्ति अपिरेवार्थे तदेव 'साम्प्रतं वर्तमानकाले 'तपागणतीर्थ' तपागण एव तीर्थ तपागणतीर्थ, 'भरते' इह भरतक्षेत्रे 'ज्ञेयं' बोध्यं, किंलक्षणं ? केन कमिव ?-सुवर्णमिव परीक्षा
TRADHARYANARAMATIPURPRINTRO
HAMARINEERIALLERAPITALMALAMITAINIKIMPRIMMITTI MAIm
UIDAISHIRAIP