________________
श्रीप्रवचनपरीक्षा १ विश्रामे
॥ ३२ ॥
तिथं खलु तित्रा अणाइजगसंठिई न इहरावि । किं मच्छिआपसूआ हंसी एगावि केण सुआ? ॥३४॥ यद्यपि “तित्थं चाउवणो संघो" इत्यादिदशमगाथायां तीर्थंकरादेव तीर्थोत्पत्तिरिति दर्शितं तथापि जगत्स्थित्या द्रढयितुं द्विर्बद्धं सुबद्धं भवतीतिन्यायाच्चाह - 'तित्थं खल्वि' त्यादि, तीर्थं तीर्थकरादेवेत्यनादिजगत्संस्थितिः, शाश्वतीयं मर्यादेत्यर्थः, नापीतरथेति, दृष्टान्तमाह - " किं मच्छिअ'त्ति मक्षिकाप्रसूता एकापि हंसीः, अपिर्गम्यः, केनापि श्रुता १, अपितु नेति जगत्स्थितिः, यथा पक्षि| त्वेन साम्येऽपि हंस्या जननी मक्षिका न भवति, तथा तीर्थं तीर्थकराद्, अन्यसान्न भव तीतिगाथार्थः ॥ ३४ ॥ अथ सामान्यतोऽपि कार्यकारणनियममाह -
एवं जं जं कज्जं निअयं निअकारणेहिं जह जायं । तं तं तहेव जायइ अन्नह जगसंठिईलोवो ||३५||
' एवं ' प्रागुक्तयुक्त्या यद्यत्कार्यं निजकारणैर्नियतं तत्तत्कार्यं तथैव जायते, अन्यथा जगत्संस्थितिलोपः स्याद्, गोरिव वृक्षादेरपि | वृषभादीनामुत्पत्तिः प्रसज्येतेतिगाथार्थः ||३५|| अथ तीर्थस्य सकलजनप्रसिद्धं लक्षणमाह-
जम्हा कुवखपखो बीहेई जह निवाउ तेणगणो । तं खलु तित्थं तित्थंकरकरठविअं मुणेअवं ||३३|| यस्मात् 'कुपक्षपक्ष' उत्सूत्र भाषिसमुदायो बिभेति - मास्मान्निग्रहं कार्षीदित्येवंरूपेण नित्यं भीत एवास्ते, यथा नृपात् स्तेनगण:चौरसमूहः, तत्तीर्थं तीर्थङ्करकरस्थापितं ज्ञातव्यमितिगाथार्थः || ३६ || अथ दिगम्बरः प्रायस्तीर्थान्न विभेति तत्र हेतुमाहजं पुण पायं तित्था खमणो न बिहेइ तत्थ तित्थेण । परिचतो पढमदिणंमि सङ्घहा सङ्घसंबंधा ||३७|| यत्पुनः प्रायः क्षपणको दिगम्बरस्तीर्थान्न विभेति तत्र तीर्थेन प्रथमदिने-नवीनमार्गप्ररूपणावसरे प्रथम एव दिवसे तीर्थेन
तीर्थस्वरूमं
॥ ३२ ॥