________________
श्रीजनचनपरीक्षा १ विश्रामे
॥३१॥
| रसास्वादकल्प एव, तीर्थनमस्कारः 'नमो तित्थस्से 'त्यादिरूपो यस्तीर्थनमस्कारस्तद्रूपं यत्सलिलं तेन सिक्तं तत् तीर्थं प्रथमं तीर्थकरेण, यदागम:- "तित्थपणामं काउं कहेइ साहारणेण सद्देणं' ति" आ० नि० (१६६) तत्फलं - तीर्थफलं, तीर्थाराधनेन केवलज्ञानहेतुः सदाचारः परिपालितो भवतीतिकृत्वा सदाचार एव तत्फलं तस्यास्वादः केवलज्ञानं तस्थाभिलाषी अन्योऽपि तथैव सिश्चेत्-नमस्कारादि यावदाराधनविधिना सम्यगाराधयेदितिकल्पद्रुमेण सादृश्यं तीर्थस्येति गाथायार्थः ॥ २९-३०-३१ ।। अथ तीर्थस्योत्पत्तिः स्थितिश्च यथा भवति तथैव दर्शयितुं दृष्टान्तमाह
जह पढमं उपपत्ती मेहविसेसाउ कप्परुकुखस्स । बीअपरंपरसंठिइ बीउच्छेए पुणो मेहा ||३२|| तह तित्थं तित्थयरा पढमं उप्पज्जए न अण्णाओ । सूरिपरंपरसंठिह सूरिच्छेए पुणो अरहा ॥३३॥ यथा कल्पवृक्षस्य प्रथममुत्पत्तिर्मेघविशेषात् कल्पद्रुमहेतुभूतात् मेघात्, तस्थितिः पुनर्व जिपरम्परा, बीजपरम्परया भवतीतिकृत्वा, बीजोच्छेदे पुनर्मेघात् प्रागुक्तमेघविशेषादुत्पत्तिरिति दृष्टान्त इति गाथार्थः ||३२|| अथ दार्शन्तिकमाह - तथा तीर्थं तीर्थकरात् प्रथममुत्पद्यते, नान्यस्मादपि, तस्य स्थितिः सूरिपरम्परयैव, यदुक्तं - " कइआवि जिणवरिंदा पत्ता अयरामरं पहं दाउँ । आयरिएहिं पवयणं धारिअर संपयं सयलं ||१|| ति श्रीउप० (१२) यथा स्वयमतथाभूतेनापि बीज प्रेघकल्पेनार्हता श्रीधीरेण श्रीसुधर्मस्वामी सूरीकृतस्तेन च जम्बूस्वामी तेनापि श्रीप्रभव इत्यादिबीजपरम्परा ज्ञेया, तस्या उच्छेदे पुनस्तीर्थमर्हत एव, न पुनः केवलिनोऽप्यपरस्मात्, कल्पवृक्षस्यापि बीजोच्छेदे हि न यत्किञ्चिन्मेघात्, नवा महतोऽपि सहकार दिविजातीय वृक्षादिति दाष्टन्तिकयोजनेतिगाथार्थः ॥ ३३ ॥ अथैवं नियमः कथमित्याह -
तीर्थ कल्पः
तस्योत्प
श्यादि
॥ ३१ ॥