________________
श्रीप्रवपनपरीक्षा १विश्रामे ॥३०॥
'विपरीता: पित्रादेः सकाशात्पृथग्भूताः पुत्रादयोऽन्योऽन्यं यथाऽन्यस्तेषां पित्रादीनां ज्ञातिसंभवः-स्वगोत्रीयो भवति तत्स-| दृशः पुत्रादिः, तस्यापि च पित्रादिस्तथैव, अयं भावः-यथा निजजातीयास्तद्गृहे प्रवेष्टुं तद्गृहसंबन्धि वस्तुजातं भोक्तुं दातुं| वा न समर्था भवन्ति, तथा पित्रादेः सकाशात्पृथग्भूताः पुत्रादयोऽपीति, आचारः पुनः-नित्यकृत्येषु 'कुलपतितः कुलक्रमायातः |एका, एवकारो गम्यः, एक एव, न तु मिन्नः, एवं जिनप्रवचनेऽपि भिन्नशाखादिपतितोऽपि न नित्यक्रियायां भेदभार नवा प्ररूपणामधिकृत्यापि तस्य भेद इति गाथार्थः ॥२७॥ अथ प्रकारांतरेण दृष्टान्तमाह
अहवेगे सहगारे साहपसाहाइसंभवाणंपि। पत्ताईणं वण्णायारासायाभिहाइ समं ॥२८॥ अथवैकस्मिन् सहकारे शाखाप्रशाखादिसंभवानामपि पत्रादीनां-पत्रपुष्पफलानां वर्णाकारास्वादाभिधानादि समं भवति, यथैकस्यां शाखायां पत्रपुष्पफलानां वर्ण आकारः आस्वादोभिधानं च यादृशं भवति तादृशमेवापरस्यामपि शाखायां पत्रादीनां स्यात्, न पुनर्मिनस्वभावः, एवं तीर्थेऽपि पृथक्शाखादिगतानां मुनिप्रभृतीनामेक एवाचारो, न भिन्न इति गाथार्थः॥२८॥ अथ तीर्थ कल्पद्रुमेणोपमयितुं गाथात्रिकमाह
मंजरि दुवालसंगी फलसरिसो सोहणो अ आयारो। महुररसासायसमं केवलणाणं मुणेअचं ॥३०॥ तित्थनमुक्कारसलिलसित्तं तित्थंकरेण तं पढमं । तप्फलसायभिलासी अण्णोऽवि तहेव सिंचिज्जा॥३१॥
सम्यक्त्वपृथ्वीपीठे तीर्थ कल्पद्रुमः, चः पुनरर्थे, शाखादिश्च सूरिप्रमुखाः श्रमणाः, श्रावकवर्गश्च पत्राणि, मञ्जरी तावत् द्वादशाकयादिः, शोभन आचारश्च फळसदृशः, मधुररसास्वादसमं केवलज्ञानं, शोभनाचारपरिपालनात् केवलावाप्तिः स्यात् , सच मधुर
॥३०॥