________________
संभोगविचार:
श्रीप्रवचनपरीक्षा १विश्रामे ॥२९॥
बहुआयरिअपरंपरअंतरिआणं न होइ संभोगो। विणयाइअकम्मं पुण अण्णुण्णं होइ अविरुद्धं ॥२५॥
बह्वाचार्यपरम्परान्तरितानां-बहूनामाचार्याणां परम्परया अन्तरितानां-व्यवहितानामन्योऽन्यं संभोगो न भवति, अर्थादनन्तरितानां संभोगो भवत्येव, अयं भावः-एकमिन् गणे भूयांसोऽप्याचार्याः संभवन्ति, ते च परस्परं संभोगिन एव स्युः, यथा श्रीमहागिरिसुहस्तिनौ सांभोगिकी, एवं च कथंचिद्देशादिव्यवधानेन तत्तदपत्यानां भिन्नभिन्नाचार्यान्तरितानां संभोगो न भवति, निग्रहानुग्रहादावेकस्याधिकाराभावाद्, विनयादिकर्म-परस्परवन्दनासनदानादिकृत्यं अविरुद्धं भवति तथा करणे विरोधो न भवति, अन्नादिदाने तु जिनाज्ञाभङ्गः, अत एव विसंभोगिकानां श्राद्धकुलादिदर्शनमेव चागमे भणितमिति गाथार्थः।।२५॥ अथ संभोगादिखरूपे लौकिकदृष्टांतमाह--
लोए पुण संभोगो सहोअराणंपि एगआणाए। वावाराइरयाणं तवसलाहाइकंखाणं ॥२६॥ लोके पुनः 'संभोगो' नित्यं भोजनादिक्रियासु समतया सम्मत्या प्रवृत्तिः 'सहोदराणां' भ्रातृणामेकाज्ञया-एकस्य पित्रादेराज्ञया 'व्यापारादिरतानां तदुपदिष्टकार्यकारिणां 'तद्वशलाभाकाङ्क्षाणां पित्राद्यायत्तलामाद्यभिलाषुकाणां भवति, अयं भावः-यः कश्चित् पित्रादिः कुलादौ ज्येष्ठस्तदायत्तानां पुत्रादीनामेकस्मिन् गृहे निवासः, तत्र प्रवेशनिर्गमादिनिरन्तरभोजनादिविधिश्च परस्परं सापेक्षः,व्यापारादिविचारणापूर्वकलाभादिसमीहा चेत्यादि सर्वमपि सर्वसम्मतमेव दृश्यते, एवमेव विवक्षिताचार्यादेशायत्तानां बहूनामप्याचार्यादीनां संभोगो युज्यत इति गाथार्थः ॥२६॥ अथ विपरीतानां किं स्यादित्याहविवरीआ अण्णुण्णं जह अण्णो णाइसंभवो तेसिं। आयारो पुण एगो कुलवडिओ निचकिच्चेसु॥२७॥
ID ॥ २९॥