________________
MPARAN
तीर्थस्य
श्रीप्रवचनपरीक्षा ॥२५॥
स्वरूप
जिनपूज्यताच
IIIIIIIIantaliDHNAADH
एवंविहसिद्धते खयभावे वट्टमाणओ तित्थं । न खओवसमे भावे तित्थंपि हविज जिणभणिकं ॥१७॥
येषां सिद्धान्तोऽपि प्रमाणं तेषां सूरिपरिपाटी-आचार्यपरम्परा नियमात् प्रमाणं भवेत् ,तत्र विशेषणद्वारा हेतुमाह-'जं सोवि'त्ति यद्-यसात् सोऽपि-सिद्धान्तोऽपि 'परम्परामूलः' परम्परा-आचार्यपरिपाटी मूलं यस्य स तथा, आत्मागमानन्तरागमपरम्परा|गमलक्षणानामागमानां मध्ये आद्ययोर्गणधरशिष्यान्तत्वात् संप्रति परम्परागमस्यैव विद्यमानत्वाद् , एवंविधसिद्धान्ते परम्परागमे 'क्षयभावे' 'क्षायिकभावे' वर्तमानात्पुरुषात् तीर्थ भवेत् केवलज्ञानवतस्तीर्थकरात्तीथं भवेत् , यदागमः-"खइअंमि वट्टमाणस्स | निग्गयं भगवओ जिणवरस्स। भावे खओवसमिए वट्टमाणेहिं तं गहिरं ॥१॥"ति श्री आ०नि०। नेति पुनरध्याहारात् , न पुनः क्षयोपशमभावे, वर्तमानादिति प्रागुक्तमत्रापि ग्राह्यं, तीथं भवेदिति जिनभणितं-तीर्थकरेणोक्तलक्षणे सिद्धान्ते निगदितम् ,एतेनासामिः सिद्धान्तमनुसृत्य तीर्थमुद्धृतमिति कुपाक्षिककदाशापि परास्ता,तेषां परम्पराया अभावात् सिद्धान्तस्यैवासंभवात् ,प्रामाण्य|संभवे च स्वमतोच्छेदापत्तेः, तत्र युक्तिरुक्ता वक्ष्यते चेति गाथार्थः॥१६-१७ ॥ अथासद्विकल्पितसाध्वादिसमुदायोऽपि तीर्थ भविष्यतीति कुपाक्षिककदाशावल्लीविनाशाय हिमानीकल्पामन्तयुक्तिं सूचयन्नेव तीर्थतीर्थकरयोरन्योऽन्यं संबन्धस्वरूपमाह
तित्थं खलु तित्थंकरनमंसिअं तेण तित्थकरपुजं । सक्काइदेवसक्खं तेणं सवेसिमवि पुजं ॥१८॥ खलुरवधारणे, तीर्थ तीर्थकरनमस्थितमेव तेन तीर्थकरपूज्यं, तच्च कथं नमस्यितं, 'नमो तित्थस्से' त्यादिवचनेन, शक्रादिदेवसमक्षं-देवेन्द्रादिसकलजनसमक्षमित्यर्थः, यदागमः-"तित्थपणामं काउं कहेइ साधारणेण सद्देण । सवेसिं सत्ताणं जोअणनीहारिणा भयवं ॥१॥" श्री आ०नि० येन कारणेन तीर्थकरपूज्यं तीर्थ तेन कारणेन सर्वेषामपि पूज्यं, पूज्यपूज्यत्वाद्, अत्र
IMARATHALINAINITIATI HODHRImmitualiBIHAmittimdimanRILLIANRAIL
MILAISHALIPHAPHIRAHARINITIOPHILIMIRITASAILI
AARIUM
AIMERIAN