________________
श्रीप्रवचनपरीक्षा ॥२६॥
स्थिति-0 साचतता
यचता
तीर्थतीर्थकरयोरन्योऽन्यं यथाई नमस्करणीयनमस्कर्तृभावलक्षणः संबन्धोऽसूचि, तत्रान्तर्युक्तिस्त्वेवं-कुपाक्षिकविकल्पितः समुदायस्तीर्थकुन्नमस्करणीयो न स्यात् , तीर्थकृतो हि स्वहस्तस्थापितमेव तीर्थ नमस्कुर्वन्ति, नान्यत्, तच्च तीर्थ यावतीर्थस्थितिस्तावत्कालं तिष्ठत्येव, तयुच्छेदे पुनः तीर्थ तस्य तीर्थकृतो न स्यात् . किन्तु यः कश्चित् तीर्थ व्यवस्थापयति तत्तस्यैव संबन्धि, नमस्करणीयं च तस्यैव स्याद् , एवं च सति यदि कुपाक्षिकाणां समुदायस्तीथं तर्हि तत्तीर्थकराः शिवभूतिचन्द्रप्रभजिनदत्तादय एव सिद्ध्यन्ति, तदीयसमुदायानां शिवभूत्यादिमूलकत्वाद्, अच्छिन्नतीर्थानिर्गत्य स्वमतिविकल्पितप्ररूपणया तीर्थविलक्षणसमु|दायस्य करणात् तीर्थानभिमतत्त्वाच्चेति युक्तिः कुपाक्षिकाशावल्लीविनाशे हिमान्येवेति गाथार्थः॥१८॥अथ तीर्थकृत्प्रवर्तितमपि तीर्थ किमायत्तमित्याह। तं चिअ समणायत्तं पण्णत्तं जिणवरेण वीरेण | न विणा तित्थं निग्गंथेहित्ति पवयणवयणाओ ॥१९॥
चिअत्ति एवकारार्थे, तदेव यत् श्रीवीरेण स्थापितं तदेव श्रमणायत्तं जिनवरेण-श्रीवीरेण प्रज्ञप्त, चतुर्यु साध्वादिवर्णेषु प्रथमः साधुरित्यर्थः, तत्र हेतुमाह-'न विण'त्ति 'न विणा तित्थं निग्गंथेहिति प्रवचनवचनात् निर्ग्रन्थैविना-साधुभिर्विना तीर्थ | नस्याद् , यद्यपि चतुर्णां वर्णानामन्योऽन्यानुविद्धत्वादेकाकी वर्णः कोऽपि तीर्थ न स्याद् , एकस्याप्यभावेऽपि तीर्थव्यपदेशासंभवात् तथापि साधोमुख्यत्वादितिगाथार्थः ॥१९।। अथ साधुष्वपि सूरिर्मुख्यः, स च कीदृशः कथं च स्यादित्याह
तत्थवि राया सूरी सो सूरिपरंपराइ अहिसित्तो। सोहम्माओ जंबू जंबूओ पभव इचाइ ॥२०॥ तत्रापि साधुषु राजा सूरिः-आचार्यः, स च सूरिः सूरिपरम्परयाऽभिषिक्तः-आचार्यपरिपाट्यागतेनाचार्येण पदे स्थापितः स्यात् ,
amagamMERIA
|H२६॥
d