________________
श्रीप्रवचनपरीक्षा ॥२४॥
श्रुतस्य. नादितायां दृष्टान्ता
गन्भे जाया गम्भं धरिज ईत्थीवि नित्थिरूवधरी। जणणीखीरं जीए पीअं पाई व सा चेव ॥१४॥ स्त्री अपि गर्भे जाता गर्भ धरेत, या स्त्री गोत्पन्ना स्यात् सैव गर्भ धरति, पुनःशब्दोऽध्याहार्यः, तथा न पुनः स्त्रीवेषधरीस्वथाकारमात्रवती स्त्रीनेपथ्यधरी वा गर्भ धरेद् , यतः आकारवती असंझितिरश्यपि स्याद् , असंज्ञितिरश्वां केचिजीवाः स्त्रीचिह्वयुक्ताः | केचित्पुरुषचिह्वयुक्ताः केचिन्नपुंसकयुक्ताश्च स्युः, न च सा स्त्री गर्भ धरेत , तस्याः स्वयं गर्भानुत्पन्नत्वात् , तथा स्त्रीनेपथ्यधरी| नटरूपा काष्ठादिमयी पुत्तलिका वा स्यात् साऽपि न गर्भधरी, तस्या अपि अगर्भजत्वात् , तथा यया जननीक्षीरं-मातृदुग्धं पीतं सा |
चैव-सैव पाययेत् स्वापत्यं प्रति निजक्षीरं दुग्धं, तत्रान्वये मानुषी व्यतिरेके पक्षिणी दृष्टान्तो चोध्यः, दार्टीतिकयोजना त्वेवं-येन | गुरोः समीपे धर्मः श्रुतः स एवान्यान् श्रावयति, नान्य इतिगाथार्थः ॥१४॥ अथ दृष्टान्तेन कार्यकारणभावमपि दृढयति___ कज्ज कारणनिअयं न समत्था हत्थिणीवि गोपसवा । तमतित्थं तित्थयरा नन्नाउ महाणुभावावि ॥१५॥
कार्य कारणनियतं, प्रतिकार्यनियतान्येव कारणानि, न पुनर्यत्किंचित्कारणजातं यत्किचिदनियतं कार्य जनयति,जगद्व्यवस्था| विप्लवस्य प्रसह्य प्रसक्तेः,तत्र दृष्टांतमाह-न समर्था-न पद्वी हस्तिनी-करिणी गोप्रसवा,गां-धेनुं प्रसूते इति गोप्रसवा-धेनुजननी सात् ,तथा तीर्थ तीर्थकरादेव,नान्यस्मात् महानुभावादपि,अयं भावः-जगति यद्यत्कार्य तत् तत्कारणनियतं,न पुनरन्यस्मान्महतोऽपि विकल्पितकारणात्कार्य स्यात् ,तथा तीर्थ तीर्थकरादेव,न पुनर्महानुभावादपि इतरकेवलिनः सकाशात तीथं जायते इतिगाथार्थः॥१५॥ अथोक्तमर्थ सिद्धान्तसम्मत्या समर्थयितुं गाथायुग्ममाह| सिद्धंतोऽवि पमाणं तेसिं जेसिपि सूरिपरिवाडी । हुन पमाणं नियमा जं सोऽवि परंपरामूलो॥१६॥
॥२४॥