________________
श्रुत्वैव धर्मोपदेशः
श्रीप्रव
धर्मोपदेशे जिनस्थापि-तीर्थकृतोऽपि श्रवणमनादिपरिपाटी,जिनस्यापि धर्मश्रवणमनादिप्रवाहतः समागतम् ,अत एवान्येभ्यो भव्येभ्यः चनपरीक्षा श्रावयति जिनेन्द्र इति, एतेन 'सयंसंबुद्धाण मितिवचनात् श्रुतधर्मस्यानादितोऽच्छिन्नपरम्परागतत्वमेव स्यादित्येवं नियमो नास्तीति ॥२३॥INI पराशंकाऽपि व्युदस्ता, एतत्पदमिह जन्मनि परोपदेशनिरपेक्षत्वसूचक, प्राग्भवसंबन्धिनोऽच्छिन्नस्य श्रुतस्य विद्यमानत्वात् , तथा
प्रथमबोधिकालेऽपि तीर्थकुञ्जीवाः गुरूपदेशेन धर्मप्राप्तिभाजोऽपि सुखबोधिभाक्त्वात् स्वयंसंबुद्धा इत्युपर्यन्ते, यथा पच्यते ओदनः स्वयमेवेति वचनं, न पुनः प्राग्जन्मन्यपि सर्वथा परोपदेशाभाव एव,नयसारजन्मनि श्रीमहावीरजीवस्य गुरूपदेशेनैव बोधिलाभात, | यदागमः-"दाणन्न पंथणयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उबवण्णो पलिआउ सुरो महिड्ढीउ ॥१॥त्ति श्रीआव० निकाननु श्रुतधर्मस्यानादिमत्वमवधिज्ञानेनापि संभवति किं जातिस्मरणेनेति चेत् , उच्यते, नरकादुत्पन्नस्य तीर्थकृतस्तथाविधावधिज्ञानानुभूतपदार्थाभावाद् अवधिज्ञानापेक्षया जातिस्मरणस्य भूयःकालगोचरत्वाच्च जातिसरणेनैव श्रुतधर्मस्याच्छिन्नपरम्परेति । अत एवागमोऽपि 'जाईसरो अ भवयं अप्परिवडिएहिं तीहिं णाणेहिन्ति प्रागुक्तः, एतच्चूर्णौ च जातिसरणमेव हेतः, तस्य बाल्यावस्थानुभूतवस्तुपरिज्ञानवजन्मान्तरानुभूतवस्तुपरिज्ञानरूपत्वाद् , यदुक्तम्-“बालकताणुस्सरणं तिवक्खओवसमभावजुत्तस्स ।। जह कस्सह बडढस्सवि जाइस्सरणं तहा कि न? ॥१॥ इति धर्मसंग्र० तवृत्तिर्यथा-कस्यापि पुंसो वृद्धस्यापि तीव्रक्षयोपशमयक्तस्य बाल्यावस्थायामपि यत्कृतं तस्यानुस्मरणं भवति, तथा जातिस्मरणमपि, यदुक्तम्-इह लोके जातिस्मरणमपि अनेकभवम्-अनेकभवविषयकमपि केषांचिदसमतामवितथार्थ दृश्यते इति धर्मसं०४६ पत्रे इति गाथार्थः॥१३॥ अथ धर्मस्य श्रवणश्रावणयोरनाद्यच्छिन्नपरम्परां दृष्टान्तैः समर्थयन् गाथामाह