________________
श्रीप्रवचनपरीक्षा ॥२१॥
तीर्थक तीर्थस्वरूप
नन्यस्तीर्थकरानन्या-तीर्थकर एव ततो भवेत् , व्युच्छिन्नं तीर्थ तीर्थकर एव व्यवस्थापयति, नान्य इति गाथार्थः ॥१०॥ अथ तीर्थकरोऽपि पूर्वभवायातो यः कश्चिजीवो भवति उत जीवविशेषो वेत्याहतित्थयरो पुण तित्थंकरआणाराहणेण पुत्वभवे। अजिअजिणनामजुओ उप्पज्जइ सोहिजाइसरो॥११॥
तीर्थकरः पुनस्तीर्थकराज्ञाराधनेन पूर्वभवेऽर्जितजिननामकर्मयुत उत्पद्यते, प्राग्भवे तीर्थकराराधनजन्यतीर्थकरनामसत्ताकस्ती. थंकरत्वेनोत्पद्यते, सोऽपि सावधिजातिस्मरः-जातिस्मरणावधिज्ञानयुतः, उक्तं च-"जाईसरोअभयवं अप्परिवडिएहिं तीहि णाणे|हिं"ति श्रीआ०नि०,एवंविधजीवविशेषस्तीर्थकरतयोत्पद्यते,न पुनर्यः कश्चिदितिगाथार्थः॥११॥ अथोक्तस्वरूपोऽपि जीवः किंपर्यायमापनस्तीर्थ प्रवर्त्तयतीत्याहसोऽवि अ केवलणाणी देवत्तं पाविऊण पुण्णजसो। पढमाए देसणाए ठविज तित्थंति तित्थयरो॥१२॥
सोऽपि-पूर्वभवार्जिततीर्थकरनामसत्ताकोऽपि च पुनः केवलज्ञानी सन्-उत्पन्नकेवलज्ञानः सन् देवत्वं प्राप्य-स्वयं देवस्वरूपयुक्तो, न पुनर्गुरुत्वं, तच्च परायत्तं, यतो गुरुत्वं गणधराणां देवायत्तं जंबूस्वाम्यादीनां च गुर्वायत्तमित्युभयथापि परायत्तमेव गुरुत्वम्,अत एव तीर्थकृतो हि चरणप्रतिपयवसरे 'करेमि सामाइओमित्याधुच्चरन्ति, शेषास्तु करेमि भंते ! सामाइअमित्यादि, सोपि किंलक्षणः! -पुण्ययशाः, त्रैलोक्यं व्याप्याद्वितीययशस्वीत्यर्थः, प्रथमायां देशनायां-केवलज्ञानोत्पत्यनन्तरं या प्रथमा देशना तस्यामेव तीर्थ
स्थापयति, यत्तु श्रीमहावीरस्य द्वितीयदेशनायां तीर्थव्यवस्थितिस्तदाश्चर्यमिति न दोष इति, अमुना प्रकारेण तीर्थकरा स्यादिति D|| गाथार्थः॥१२॥ अथ यदि केवलज्ञानी तर्हि जातिस्मरणादिना किं प्रयोजनमित्याह
HAPARISHAILAIMARATHIBILITAPURIHARILAL