________________
श्रीप्रवचनपरीक्षा ॥२०॥
तीर्थादि निर्गतता तीर्थखरूपं
प्रथमानाम्-अनन्तानुबन्धिनां क्रोधादीनामुदये, तीर्थप्रवेषिणामुत्सूत्रभाषिणामनन्तानुबन्धिन एव क्रोधादय उदिता भवन्ति, अन्यथा चातीर्थ तीर्थतया तीर्थ चातीर्थतया वितथभणनासंभवाता, 'तीर्थात् ' श्रीसुधर्मखामिनोच्छिन्नसाध्वादिसमुदायात केचित्दिगम्बरपौर्णिमीयकौष्ट्रिकपाशचन्द्रनामानश्चत्वारोऽनन्तरं तीर्थान्निर्गताः, केचित्-स्तनिकसार्द्धपौर्णिमीयकागमिकलक्षणास्त्रयः 'तत्तो'त्ति तस्मान्निर्गतात् पौर्णिमीयकात् निर्गताः, केऽपि 'मूछिमकल्पाः' संमूछिमकल्पाः, संमूछिमद्वींद्रियादिजन्तुकल्पाः, न तीर्थात् न वा तीर्थनिर्गतात् , किंतु स्वत एवाकस्मिकनिमित्तका इत्यर्थः, ते के ?-लुम्पाककटुबन्ध्यनामानस्त्रयः, तत्र लुम्पाककटुको गृहस्थी, वन्ध्यस्तु लुम्पाकात् निर्गतः, एते दशापि 'पापानां पापात्मनां मिथ्यादृशां पापतराः-महामिथ्यात्विन इत्यर्थः,इति गाथार्थः।।९।। अथ तीर्थस्वरूपवति तीर्थे सिद्ध एव तीर्थबाह्याः कुपाक्षिका इति वक्तुं शक्यते,अतः प्रथमं तीर्थस्वरूपमाह
तित्थं चाउचण्णो संघो तकारओ अतित्थयरो। तेणं तं वुच्छिन्नं तित्थयराणण्णओ होइ ॥१०॥ तीर्थं तावच्चतुर्वर्णः सङ्घः-साधुसाध्वीश्रावकश्राविकालक्षणाश्चत्वारो वर्णा यत्रैवंविधः संघस्तीथं भण्यते; प्रथमगणधरो वा, | | यदुक्तं-"तीर्थ नद्यादेरिव संसारस्य तरणे सुखावतारो मार्गः, तच्च द्वेषा-द्रव्यतीर्थ भावतीथं च, द्रव्यतीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणस्थानं,यदाह-"जम्मं दिक्खा णाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं आगाद दंसणं होइ॥१॥"भावतीर्थ तु चतुर्वर्णः श्रमणसंघः प्रथमगणधरो वा,यदाह-"तित्थं भंते! तित्थं तित्थयरे तित्थं?,गोअमा! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो,पढमगणहरे वा" इति योगशास्त्रद्वितीयप्रकाशवृत्ती, 'तत्कारक' तयवस्थापकस्तीर्थकरो,यतस्तीर्थंकरोतीति तीर्थकर इति शब्दव्युत्पत्त्यैव सिद्धस्तीर्थकरोऽर्हन्नेव, तेन कारणेन व्युच्छिन्नं तीर्थं तीर्थकरानन्यतो भवेत, नान्योऽनन्यस्तीर्थकराद