________________
श्रीप्रवचनपरीक्षा ॥१९॥
कुपाक्षिकनामानि
खवणय पुण्णिम खरयर पल्लविआ सढपुण्णिमा'ऽऽगमिआ।
पडिमा मुणिअरि वीजा, पासो पुण संपई दसमो ॥८॥ क्षपणको-दिगम्बरः। पूर्णिमाशब्देन पाक्षिकत्वेन पूर्णिमामभ्युपगच्छन् पौर्णिमीयकः२ 'खरहर'त्ति खरतर औष्ट्रिकापरनामा, 'पल्लवो' वस्त्रांचलः तमेव सामायिकादौ श्रावकाणामुपदिशतीति पाल्लविका-आञ्चलिक सार्द्धपौर्णिमीयकः-पौर्णिमीयकभेदविशेषः५|| आगमिका-त्रिस्तुतिकः 'पडिमामुणिअरित्ति प्रतिमा च मुनिश्च प्रतिमामुनी,जिनबिम्बसाधू इत्यर्थः,तयोररिः-वैरी, 'द्वन्द्वान्ते श्रूयमाणं| | पदं प्रत्येकमभिसंवध्यते' इति प्रतिमारिर्लुम्पाकः, मुन्यरि:-कडकः, यद्यपि मुनिवैरिणो दिगम्बरादयो दशापि भवन्ति, तथापि | साध्वाभासं स्वकीयं खकीयं गुरुं साधुत्वेन प्रतिपन्नाः,कडुकस्तु नास्मपथमायान्ति मुनय इति नाममात्रेणापि तत्स्वीकारशून्य इति
कडक एव मुनिवैरित्वेन प्रसिद्धः, एवं प्रतिमावैरित्वमपि लुम्पाकमते रूढम् , अन्यथा सर्वेऽपि कुपाक्षिकाः प्रतिमावैरिण एव सन्ति, | तत्कथमिति चेच्छृणुत,तीर्थकृत्प्रवर्तितं तीर्थ परित्यज्य तीर्थाभिभूतये नवीनमार्गाविष्करणेन तीर्थकुद्वैरित्वे सिद्ध कथं तत्प्रतिमामंत सिद्ध्यतीति स्वयमेवालोच्यं, वंध्यो-लुंपाकमतानिर्गतो बीजाख्यनामा वेषधरस्तस्मात्प्रवृत्तस्य मतस्य लोके बीजामतीति रूढिः५ | 'पाशः पाशचन्द्रो नागपुरीयतपागणानिर्गत्य प्ररूपणया प्रायो लुम्पाकमतसदृशः१०,स च पुनः सम्प्रति वर्तमानो दशमोऽवगन्तव्यः, || संप्रतिशब्देनैतत्प्रकरणकाले दशानामपि विद्यमानत्वमसूचि, अत एव सूत्रोक्तानामपि जमाल्यादीनामग्रहणेऽपि नव्यामोहः, संप्रति तदीयसंतानस्य निस्सत्ताकीभूतत्वेनाकिञ्चित्करत्वादिति गाथार्थः।।८॥ अथ दशानामपि तीर्थात् पार्थक्ये स्वरूपमाहपदमिल्लुआण उदए तित्थाओ केवि निग्गया केनि। तत्तोवि केवि मुच्छिमकप्पा पावाण पावयरा ॥९॥
॥१९॥