SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अंचलमतोत्पत्तिः श्रीप्रवचनपरीक्षा ४विथामे ॥४३॥ म पुननरसिंहः क्रमेण कियता कालेन पर्यटन ककरग्रामासन्ने छउणयग्रामे प्राप्तः,तत्र च तन्मतिका-पौर्णिमीयकमतरता लोचन- रहिता नाबानाम्नी श्राद्धी महद्धिका वृद्धा च वयसा कुटुम्बमान्या चासीदिति गाथार्थः ॥३॥ | तीए वंदणदाणावसरे मुहपत्तिआवि णो पत्ता । देहंचलेण वंदणमिअ भणि तेण पावेण ॥४॥ तया वन्दनदानावसरे 'मुखपत्रिका' मुखवत्रिकापि नो प्राप्ता, तदानीं तेन पापेन नरसिंहेन देवश्चलेन बन्दनकमिति भणित|मिति गाथार्थः ॥ ४ ॥ अथ तन्मतसानिध्यदाच्या नाड्याः स्वरूपमाह-- सा पुण पुवं पुण्णिमगुरूण केणावि दृमिआ आसी । नरसिंहस्सवि भइणी दोहिवि पयडीकयं कुमयं ।।५।। | सा नाढी निज टुम्बे बहुमान्या केनचिद् पौर्णिमगुरुणा-पौर्णिमीयकाचार्येण 'दृमित्ति दूमिता दोदूयां प्रापिताऽऽसीद् , अयं | भावः-कश्चिदाचायः तत्र प्राप्तः, तेन च तत्रत्यश्राद्धादिसमुदायो धर्मनिर्वाहणोदन्तेन पृष्टः, तेन च नाढीप्रसादेनोक्तं, तदानी-| |माचार्योऽपि कीदृशी नाढी,देवगुरुप्रसादेनेति कथं नोच्यते? इत्युक्तवान् ,एकदा च वन्दनकदानावसरे नाढी नासीत् , कुटुम्बेन चोक्तं-यावनाढी नायाति तावत्प्रतीक्षणीयम् , आचार्यश्च तन्मानम्लानीकृते तामन्तरेणैव वन्दनकं दापितवान् , तदुदन्तं च स्वरूपं चाकर्ण्य मा नाड्यपि सामर्षाऽभूत , तद्वृत्तान्तं च निशम्य नरसिंहस्तत्रागतः,सा च तस्य भगिनी,वन्दनकदानावसरे दैवयोगात् तस्या एव मुखवत्रिका न प्रभृता, नरसिंहेन चोक्तं हे नाडि! नास्त्यागमे मुखवत्रिका श्राद्धानामिति प्ररूपणया तव मानम्लानिकराचार्यानुरक्तश्राद्धसमुदायस्य मुखवस्त्रिकात्याजनेन तवाम प्रमाणपदवीं नेष्यामो, देह्यञ्चलेन द्वादशाव-वन्दनकं, दत्तं च तया| सकुटुंबिकया तत् , ततो दृग्विकलनादिएकाक्षनरसिंहाभ्यां कारणानुरुपं कार्यमिति न्यायादाश्चलिकमतोत्पत्तिरिति द्वाभ्यां कुमतं प्रक १४३०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy