________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४२९ ॥
अथ पञ्चमो विश्रामः ॥
अथ क्रमप्राप्तमांचलिक मतं निरूपयितुमाह-
अह अंचलिअं, कुमगं लोअप सिर्द्धपि किंचि दंसेभि । तेरुत्तरवारसए विकमओ अहमकम्मुदया ॥ १ ॥ 'अथे' त्यौष्ट्रिकनिरूपणानन्तरम् 'आंचलिकम्' अञ्चलं - पल्लवो धर्मानुष्ठानादौ श्रावकाणां प्ररूपयन्तीत्याञ्चलिकास्ते पामिदमाञ्चलिकं 'कुमतं' कुत्सित श्रद्धानरूप लोकप्रसिद्धमपि सर्वलोकसम्मतमपि, यद्यपि सर्वेऽपि कुपाक्षिकाः प्रवचने प्रतीता एव तथापि तेष्वप्यावलिकः प्रकृतो वक्ष्यमाणश्च लुम्पा क इति द्वितयमाबालगोपाङ्गनानामपि प्रतीतमिति ज्ञापनार्थमिदं विशेषणं, यत एवं तत एव किंचिद्दर्शयामि न पुनः खरतरवद्विस्तरेणेति पूर्वार्द्धम्, अथो तरार्द्धनोत्पत्तिकालमाह - 'तेरुत्तरे' त्यादि, त्रयोदशोसर द्वादशशते वर्षे विक्रमतोऽधमकम्मोदयाद्-अशुभ कर्मोदय जातमित्यध्याहार्य मितिगाथार्थः || १ || अथ यतः पुरुषादुत्पन्नं तमाह
पुण्णिमिओ नरसिंहो ना मेणं एगनयणदुवयणो । केणवि अवराहेणं तेहिवि याहिकओ आसी ||२|| पौर्णिमीयिकः- पूर्णिमापक्ष संबन्धी नाम्ना नरसिंह: 'एकनयनदुर्वचनः' एकं नयनं - लोचनं यस्य स एकनयनो दुष्ट व चनं यस्य स२ ततो विशेषणसमासः, काणाक्षोऽपि जिनदत्तवन्मुखरीत्यर्थः, अत एव केनाप्यपराधेन 'तेहिवि 'न्ति तैरपि - पौर्णिमीयकैरपि वहिष्कृत आसीदितिगाथार्थः ||३||
सो पुर्ण कमेण छउणयगामे पत्तो अ तत्थ तम्मइया । लोअणरहिआ नाढीनिसढीव महिद्विआ बुढा ॥ ३ ॥
अंचलमतोत्पत्तिः
॥४२९॥