________________
श्रीप्रवचनपरीक्षा ॥११॥
तथाप्येकारिमैत्रीवशात कुनृपादिप्रेरणाद्वारा तथा संभवन्त्येव, यद्वा यथा कुनृपेभ्यः संभावितशङ्कया प्रवचनप्रभावनाप्रभविष्णवोऽपि|U उदितोदिकालानुभावाच्चेतोदौर्बल्याच्च न प्रवचनं प्रभावयितुं प्रभवन्ति तथा कुपाक्षिकेभ्योऽपि भूयःसंपर्कवशाद्दाक्षिण्यात् तत्कृतोपहासनिन्दा- तपूजादिशङ्कया च प्रवचनप्रभावनाप्रभवोऽप्यप्रभवः स्युः, तथा कालानुभावात् । ननु कुपाक्षिकबाहुल्ये सत्यपीदानींतनपूजावत्तदानीमपि
व्यवस्था पूजासत्कारो भवतु किं बाधकमितिचेदुच्यते, यो हीदानींतनः पूजात्कारः स च भाविनः स्कीतपूजासत्कारस्य बीजभृतो,न पुनः स्वयं स्फीतः, यतः कुपाक्षिकबाहुल्ये सत्यास्तामन्यो जनः सुमार्गपतितोऽपि भूयान् जनः कुपक्षसुपक्षयोस्तुल्यधिया प्रवर्त्तमानः पूजासत्कार कुर्वन्नपि वस्तुगत्या द्वेषिमुद्रां नातिकामति, यदाहुः श्रीहेमसूरयः-"सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचेच समानुबन्धाः॥१॥ इत्यगम्यमध्यात्मेति द्वात्रिंशिकायाम् ,अतस्तत्कृतः पूजासत्कारोऽप्यकिश्चित्कर एव, यस्त्वनन्यमनाः सुपक्षमेव कक्षीकृत्य प्रवर्त्तते स चाल्पीयान् स्वयमप्रभुश्चेति तत्कृतपूजासत्कारोऽपि न स्फीत इति बोध्यं, तस्मादुदितोदितपूजासिद्ध्यर्थ द्वयोरप्यनयोर्विशेष्यविशेषणभावेऽभ्युपगते न किंचिद्बाधकं, वैपरीत्ये तु बाधकमिति स्वयमेवालोच्यम् ॥ अत्राभिधेयं तावत् कुपाक्षिकान् दर्शयामीति साक्षादेवोक्तं, प्रयोजनं च द्वेधा-परमपरं च, तत्र परं प्रयोजनं मोक्षः, अपरं च मोक्षाङ्गं कुपाक्षिकपरिज्ञानं,यतो 'ज्ञाता हि शत्रवो न पराभवंती'तिकृत्वा कुपाक्षिका अपि सम्यक् परिज्ञाय परित्यक्ताः सन्तोन मोक्षमार्गविघ्नकरा भवन्ति,इत्यतः कुपाक्षिकपरिज्ञानं मोक्षाङ्गम् ,अज्ञातास्त्वनादृता अप्यानुकूल्यादिभाषणादिना सुगतिहन्तारः संसार| हेतवश्च भवन्ति, यदागमः-"जे मिक्खु वार परपासंडाणं पसंसं करेजा जेआवि निण्हगाणं पसंसं करेजा जे आवि निण्हगाणं आययणं पविसिज्जा जे आवि निहगाणं गंथं सत्थं पयं अक्खरं वा परवेजा जे णं निहगाणं संतिए कायकिलेसाइए तवेइ वा संजमे- ॥११॥