________________
श्रीप्रवचनपरीक्षा ॥ १० ॥
~
वीरजिनजन्मशब्देन तदुपलक्षितं नक्षत्रमुत्तरफाल्गुनीरूपं ग्राह्यं तत्र सङ्क्रान्तो - मेषादिराशिचारानुक्रमेणागतो भस्मराशिः- भस्मरा| शिनामा क्रूरग्रहः, एकस्मिन् नक्षत्रे द्विसहस्रवर्षस्थितिभाग्, तस्य प्रभावो - महिमा तस्मात्, श्रीमहावीरस्य निर्वाणावसरे जन्मनक्षत्रे संक्रान्तभस्मराशिमाहात्म्यात् कुपाक्षिकबाहुल्यमित्यर्थः ननु द्विसहस्रवर्षान्ते श्रीवीरजन्मनक्षत्रात् व्यतिक्रान्ते भस्मराशौ कुपाक्षिकप्राचुर्य भविष्यति उत नेति चेदुच्यते, प्रायो न भविष्यतीति संभाव्यते, यतस्तदानीं निर्ग्रथानां निग्रंथीनां च पूजाऽभिवृद्धिरुक्ता, यदागमः - "जं रयणिं च णं समणे भगवं महावीरे जाव सङ्घदुकूखप्पहीणे तं स्यणिं च णं खुद्दाए भासरासी नाम महग्गहे दोषासस| हस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनखत्तं संकंते तप्पभिदं च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिओदिए पूआसक्कारे पवत्तई, जया णं से खुद्दाए जाव जम्म नकुखत्ताउ वइकंते भविस्सइ तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिओ - |दिए पूजासकारे भविस्सइ" त्ति श्रीपर्युषणाकल्पे, तादृशी च पूजा कुनृपकुपाक्षिकेषु बलवत्सु सत्सु न संभवति, तेषां च प्रवचनपूजाया | असहिष्णुत्वात्, तत्र कुनृपास्तावत् कल्किराजपुत्रस्य दत्तनाम्नो राज्ञ आरभ्य पश्चमारकपर्यन्तमसंभविनः, यदुक्तं श्रीहेमाचार्यपादैः"पितुः पापफलं घोरं, शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥ १॥ पञ्चमारकपर्यन्तं, यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य, भविष्यति निरन्तरम् | २|” इति श्रीमहावीरचरित्रे श्रीशत्रुञ्जयमाहात्म्ये च, एवं सर्वदेशविसंवादिनो दिगम्ब| रराकारक्तादयः कुपाक्षिका अपि दत्तनाम्नो राज्ञ आरभ्य पञ्चमारकपर्यन्तमसंभविनोऽवगन्तव्याः, द्वयोरपि प्रवचनपीडापूजाभिभवकारित्वेन तौल्यात्, ननु कुनृपा बलवन्तः प्रवचनपूजाया असहिष्णवः सन्तः पराभविष्णवः संभवन्ति, तत्कृतौ तेषां सामर्थ्यात्, कुपाक्षिकास्तु | वराकाः प्रायः प्रवचनाद्भीता एव वर्त्तमानाः कथं प्रवचनपूजां पराभवन्तीतिचेत् सत्यं, यद्यपि स्वातन्त्र्यात् किञ्चित्कर्तुमसमर्था एव,
भस्मग्रहः
॥ १० ॥